________________
२९०
श्रीपार्श्वनाथचरितेवृथाऽत्राऽभूत् पिनष्ट्येष मुष्टिना हि गिरीनपि ॥ २०६॥ मूढेन हा ! मयाऽऽत्मैव पातितो भवसागरे । क्षिप्तः कल्पद्रुमे वह्निर्यदेष स्वाम्युपद्रुतः ।। २०७॥ दयालुनैष मे हन्ता धरणेन्द्रात् तथाऽपि भीः । अनन्यशरणः पार्थ तद् विश्वशरणं श्रये ॥ २०८ ॥ इति ध्यात्वाऽऽशु संहृत्य घनं स्खमिव कश्मलम् । उपेत्य नत्वा श्रीपार्श्व सदैन्यं स व्यजिज्ञपत् ।। २०९ ॥ कोपो यद्यपि नास्त्येवाऽपकारिण्यपि ते प्रभो !। तथाऽपि निजदुष्कर्मदोषादस्ति महाभयम् ॥ २१० ॥ रक्ष रक्ष जगन्नाथ ! ततो मां पापशङ्कितम् । रक्षाक्षमः कृपालुश्च यत् त्रिलोक्यां त्वमेव हि ॥ २११ ॥ इत्युक्त्वा क्षमयित्वा च प्रभु भक्त्या प्रणम्य च । पश्चात्तापपरः स्थानं मेघमाली निजं ययौ ॥ २१२ ॥ उपसर्गहरस्याऽपि निवार्योपद्रवं विभोः। स्तुत्वा नत्वा च चरणौ खं धाम धरणोऽप्यगात् ॥२१३॥ अथ रात्रिः प्रभोर्दुःखेनैव सार्धं ययौ क्षयम् । मुखोद्घाटः कृतश्चैन्द्रया मुदेवोद्यद्रविच्छलात् ।। २१४ ॥ कठेन सह कर्मार्णोमुक्तः स्वामी ततः पुनः । काशिं गत्वाऽऽश्रमपदोद्यानेऽस्थाद् धातकी तले ॥२१५॥ अपूर्ववीर्योल्लासाच घातिकर्मतरूंस्तदा । आधभेदद्वयीधारशुक्लध्यानासिनाऽच्छिदत् ॥ २१६ ॥ दिनेषु चतुरशीतौ गतेषु व्रतवासरात् । चैत्रकृष्णचतुर्थ्यति विशाखास्थे निशाकरे ॥ २१७ ॥ तत्राष्टमतपस्स्थस्य श्रीपार्श्वस्य जगत्पतेः। पूर्वाह्ने केवलज्ञानमुत्पेदेऽनन्तवैभवम् ॥ २१८ ॥ तदालोकमलोकं च ज्ञानाद्वैतमयः प्रभुः ।