________________
तत्त्वार्थाधिगमसूत्रम् अ० सू० ३०-४०1]
आज्ञापायविपाकसंस्थानविचयाय धर्ममप्रमत्त
२०६
संयतस्य ॥ ३७ ॥
श्रज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविचयाय च* स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति । किं चान्यत्
उपशान्तक्षौणकषाययोश्च ॥ ३८ ॥
उपशान्तकषायस्य चीणकषायस्य च धर्मं ध्यानं भवति ।
किं चान्यत्
शुक्ले चाद्ये' ॥ ३८ ॥
शुक्ले चाद्ये ध्याने पृथक्कवितर्कैकत्ववितर्के चोपशान्तचीण- 10 कषाययोर्भवतः । श्रद्ये शुक्ले ध्याने पृथक्कवितर्कैकत्ववितर्के पूर्वविदो भवतः ।
परे केवलिनः ॥ ४० ॥
परे द्वे शुक्ल?ध्याने
* D omits च ।
t CD omit च ।
5
केवलिन एव भवतः न च्छद्मस्यस्य ।
+ P शुक्ले चाद्ये पूर्वविदः ॥ २८ ॥
$ CD शुले ।
१ SH भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग्विवृणोति सम्बन्धयति वा एवमेते शुक्लध्याने पूर्वविदो भवतः पूर्वविदौ यावुपशान्त क्षीणकषायौ तयोर्भवतः सूत्रान्तरमिव व्याचष्टे न तु परमार्थतः पृथक सूत्रम् पूर्वप्रणयनात् ।
-