SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [अ॰ ६+०२२-२४।] वेदनीयनामगोचप्रकृतिभ्यः शेषाणां ज्ञानावरणदर्शनावरणमोहनीयायुष्कान्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहूर्त * भवति ॥ उक्तः स्थितिबन्धः । अनुभावबन्धं वक्ष्यामः । १६. विपाको ऽनुभावः ॥ २२ ॥ सर्वासां प्रकृतीनां फलं विपाकोदयो ऽनुभावो भवति । 5 विविध: पाको विपाकः स तथा चान्यथा चेत्यर्थः । जीवः कर्म - विपाकमनुभवन् कर्मप्रत्ययमेवाना भोगवीर्यपूर्वकं कर्मसंक्रमं करोति ? उत्तरप्रकृतिषु सर्वासु मूलप्रकृत्यभिन्नासु न तु मूलप्रकृतिषु संक्रमो विद्यते बन्धविपाकनिमित्तान्यजातीयकत्वात् । उत्तरप्रकृतिषु च दर्शनचारित्रमोहनीययोः सम्यग्मिथ्यात्ववेदनीयस्या - 10 युष्कस्य च जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव संक्रमो न विद्यते । अपवर्तनं तु सर्वासां प्रकृतीनां विद्यते । तदायुष्केण व्याख्यातम् [II. 52] ॥ स यथा नाम ॥ २३ ॥ सो ऽनुभावो गतिनामादीनां यथा नाम विपच्यते ॥ ततश्च निर्जरा ॥ २४ ॥ ततश्चानुभावात्कर्मनिर्जरा भवतीति || | निर्जरा चयो वेद * D चन्नममुहूर्ता । $ D निमित्तस्यान्य । - + C अनुभाग । + C adds इति । || CD omits इति । 15
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy