SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६० तत्त्वार्थाधिगमसूत्रम् । [अ० १ । सूक-रश] बन्धवधच्छविच्छेदातिभारारोपणानपाननिरोधाः ॥२०॥ त्रमस्थावराणं जीवानां बन्धवधौ त्वक्छेदः काष्ठादौनां पुरुषहस्त्यश्वगोमहिषादीनां चातिभारारोपणं तेषामेव चानपाननिरोधः अहिंसाव्रतस्यातिचारा भवन्ति ॥ 5 मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥ २१ ॥ _एते पञ्च मिथ्योपदेशादयः सत्यवचनस्यातिचारा भवन्ति । तत्र मिथ्योपदेशो नाम प्रमत्तवचनमयथार्थवचनोपदेशो विवादेव तिसंधानोपदेश इत्येवमादिः॥ रहस्याभ्याख्यानं 10 नाम स्त्रीपुंसयोः परस्परेणान्यस्य वा रागसंयुक्तं हास्यक्रौडासङ्गादिभौ रहस्येनाभिशंसनम् ॥ कूटलेखक्रिया लोकप्रतीता ॥ न्यासापहारो विस्मरणकृतपरनिक्षेपग्रहणम् ॥ साकारमन्त्रभेदः पैशुन्यं गुह्यमन्त्रभेदश्च ॥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीना- 51 धिकमानोन्मानप्रतिरूपकव्यवहाराः ॥ २२ ॥ एते पञ्चास्तेयव्रतस्थातिचारा भवन्ति । तत्र स्तेनेषु हिरण्यादिप्रयोगः ॥ स्तेनैराहतस्य द्रव्यस्य मुधा क्रयेण वा ग्रहणं + BK प्रभेदश। * D विवादादिष्वतिसं। + C •हुनद्र।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy