SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् । [१० । मू-9-4) अशुभः पापस्य ॥४॥ --- तत्र मवेद्यादि पुण्यं वक्ष्यते [VIII. 26] । शेषं पापमिति ॥ सकषायाकषाययोः साम्परायिकेर्यापथयोः॥५॥ स एष त्रिविधो ऽपि योगः मकषायाकषाययोः साम्परायिकर्यापथयोरासवो भवति यथासङ्ख्यं यथासम्भवं च । सकषायस्य । योगः साम्परायिकस्य । अकषायस्येर्यापथस्यैवैकसमयस्थितेः ॥ अव्रतकषायेन्द्रियक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसङ्ख्याः पूर्वस्य भेदाः॥६॥ पूर्वस्येति सूत्रक्रमप्रामाण्यात्साम्परायिकस्याह । साम्परायिकस्यास्रवभेदाः पञ्च चत्वारः पञ्च पञ्चविंशतिरिति भवन्ति ॥ 10 पञ्च हिंसानृतस्तेयाब्रह्मपरिग्रहाः । प्रमत्तयोगात्प्राणव्यपरोपणं हिंमा [VII. 8] इत्येवमादयो वक्ष्यन्ते ॥ चत्वारः क्रोधमानमायालोभा अनन्तानुबन्ध्यादयो वक्ष्यन्ते [VIII. 10] ॥ पञ्च प्रमत्तस्येन्द्रियाणि ॥ पञ्चविंशतिः क्रियाः । तमे क्रियाप्रत्यया यथासङ्ख्यं प्रत्येतव्याः । तद्यथा। सम्यक्वमिथ्यात्वप्रयोगसमादाने- 15 पथाः कायाधिकरणप्रदोषपरितापनप्राणातिपाताः दर्शनस्पगेनप्रत्ययसमन्तानुपातानाभोगाः स्वहस्तनिसर्गविदारणानयनानवकाङ्क्षा प्रारम्भपरिग्रहमायामिथ्यादर्शनाप्रत्याख्यान क्रिया इति ॥ * Dअप्रत्ययावान।
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy