SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १६६ सर्वार्थसिद्धिः त्वसिद्धेः ॥ मनो द्विविधं द्रव्यमनो भावमनश्चेति ॥ - भावमनस्तावल्लब्ध्युपयोगलक्षणं पुद्गलावलम्बनत्वात् पौद्गलिकम् ॥ द्रव्यमनश्च , ज्ञानावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामलाभप्रत्यया गुण. दोषविचारस्मरणादिप्रणिधानाभिमुखस्यात्मनोऽनुग्राहकाः पुद्गला मनस्त्वेन परिणता इति पौद्गलिकम् ॥ कश्चिदाह मनो द्रव्यान्तरं रूपादिपरिणामरहितमणुमात्रं तस्य पौगलिकत्वमयुक्तमिति ॥ तदयुक्तम् ॥ कथम्? उच्यते- तदिन्द्रियेणात्मना च सम्बद्धं वा स्यादसम्बद्धं वा । यद्यसम्बद्धं, तन्नात्मन उपकारकं भवितुम. हति । इन्द्रियस्य च साचिव्यं न करोति ॥ अथ सम्बद्धं, एकस्मिन्प्रदेशे सम्बद्धं सत्तदणु इतरेषु प्रदेशेषु उपकारं न कुर्यात् ॥ अष्टवशादस्य अलातचक्रवत्परिभ्रमणमिति चेनतत्सामर्थ्याभावात् । अमूर्तस्यात्मनो निष्क्रियस्यादृष्टो गुणः, स निष्क्रियः सन्नन्यत्र क्रियारम्भे न समर्थः । दृष्टो हि वायुद्रव्यविशेषः क्रियावान्स्पर्शवान्प्राप्तवनस्पती परिस्पन्दहेतुस्तद्विपरीतलक्षणश्चायमिति क्रियाहेतुत्वाभावः ॥ वीर्यान्तरायज्ञानावरणक्षयोपश माङ्गोपाङ्गनामोदयापेक्षिणाऽऽत्मना उदस्यमानः कोष्ठयो वायुरुच्छ्वासलक्षणः प्राण इत्युच्यते ॥ तेनैवात्मना बाह्यो वायुरभ्यन्तरीक्रियमाणो निःश्वासलक्षणोऽपान इत्याख्यायते ॥ एवं तावप्यात्मानुग्राहिणौ जीवितहेतुत्वात् ॥ तेषां मनःप्राणापानानां मूर्तिमत्त्वमवसेयम् । कुतः ? मूर्तिमद्भिः प्रतिघातादिदर्शनात् ॥ प्रतिभयहेतुभिरशनिपातादिभिमनसः प्रतिघातो दृश्यते । सुरादिभिश्चाभिभवः ॥ हस्ततलपुटादिभिरास्यसंवरणात्प्राणापानयोः प्रतिघात उपलभ्यते । श्लेष्मणा चाभिभवः ॥ न चामूर्तस्य मूर्तिमद्भिरभिघातादयः स्युः ॥ अत एवा. त्मास्तित्वसिद्धिः । यथा यन्त्रप्रतिमाचेष्टितं प्रयोक्तुरस्तित्वं गमयति , तथा प्राणापानादिकर्मापि क्रियावन्तमात्मानं साधयति ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy