SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १६५ पंचमोऽध्यायः इति परिप्रश्ने पुद्गलानां लक्षणमुच्यते भवता शरीरादीनि पुद्गलमयानीति ॥ नैतदयुक्तम् । पुद्गलानां लक्षणमुत्तरत्र " स्पर्शरसगन्धवर्णवन्तः पुद्गला इत्यत्र" वक्ष्यते । इदं तु जीवान् प्रति पुद्गलानामुपकारप्रतिपादनार्थमेवेति उपकारप्रकरणे उच्यते ॥ शरीराण्युतानि औदारिकादीनि , सौम्यादप्रत्यक्षाणि , तदुदयापादित (तदुभयोपपादित ?) वृत्तीन्युपचयशरीराणि कानिचित्प्रत्यक्षाणि कानिचिदप्रत्यक्षाणि ॥ एतेषां कारणभूतानि कर्माण्यपि शरीरमहणेन गृह्यन्ते ॥ एतानि पौगलिकानीति कृत्वा जीवानामुपकारे पुद्गलाः प्रवर्तन्ते ॥ स्यान्मतं. कार्मणमपौद्गलिकमनाकारत्वादाकाशवत् । आकारवता हि औदारिकादीनां पौगलिकत्वं युक्तमिति ।। तन्न । तदपि पौद्गलिकमेव, तद्विपाकस्य मूर्तिमत्सम्बन्धनिमि.. तत्त्वात् ॥ दृश्यते हि ब्रीह्यादीनामुदकादिद्रव्यसम्बन्धप्रापितपरिपा कानां पौगलिकत्वम् । तथा कार्मणमपि गुडकण्टकादिमूर्तिम. व्योपनिपाते सति विपच्यमानत्वात्पौद्गलिकमित्यवसेयम् ॥ वाक द्विविधा । द्रव्यवाक् भाववागिति ॥ तत्र भाववाक् तावतीर्यान्तरायम· तिश्रुतज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभनिमित्तत्वात् पौद्गलिकी । तदभावे तद्वत्त्यभावात् ॥ तत्सामोपेतेन क्रियावताऽऽत्मना प्रेर्यमाणाः पुद्गला वाक्त्वेन विपरिणमन्त इति द्रव्यवागपि पौगलिकी। श्रीनेन्द्रियविषयत्वात् । इतरेन्द्रियविषया कस्मान्न भवति ? तद्व- हणायोग्यत्वात् । घ्राणग्राह्ये गन्धद्रव्ये रसायनुपलब्धिवत् ॥ अमूर्ता वागिति चेन्न- मूर्तिमद्हणावरोधव्याघाताभिभवादिदर्शनान्मूर्तिम . . . . १ ताल्वोष्टपुटव्यापारा। २ मूर्तिमता इन्द्रियेण ग्रहणम् । मूर्तिमता कुड्यादिनावरणम् ! मूर्तिमता प्रतिकूलवाय्यादिना व्याघातः। ३ बलीयसा .. वन्यन्तरेणाभिभः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy