SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ समितविस्तरा-टोका परिणामो भक्त्यतिशयात्, मुक्धुपरिपूर्णलोचनो रोमांचाञ्चितवपुः, मिथ्यात्वनलनिलयानेककुमाहनचक्राकुले . भवाब्धावनित्यत्वाच्चायुषोऽतिदुर्लभमिदं सकलकल्याणककारणं चाधःकृतचिन्तामणिकल्प मोपमं भगवत्पादवन्दनं कथञ्चिदवाप्तं, नचातः परं कृत्यमस्तोति; अनेनात्मानं कृतार्थमभिमन्यमानो भुवनगुरौ विनिवेशितनयनमानसोऽतिचारभो- . रुतया सम्यगस्खलितादिगुणसम्पदुपेतं तदर्थानुस्मरणगर्भमेव प्रणिपातदण्डकसूत्रं पठति । .. टी०...तत्र-नमीत्थुणं सूत्रपाठे चायं विधिः(१) चैत्यवंदनेच्छुकः साधुः श्रावको वा (उपलक्षणतोऽविरतसम्यगृदृष्टिरपुनर्बन्धकादि ज्ञेयः) चैत्यगृहादी-आदिनोपाश्रयादो, 'एकान्तप्रयतः' एकान्ते-शान्तस्थाने (एकनिश्चयतः) 'प्रयतः' प्रभुपूजादिना शुचि-प्रसन्नमना:-सम्यक्प्रयत्नशीलः सन्-एकान्तेन प्रणम्रो वा प्रकर्षेण यतनाशीलः सन्, (२) चैत्यसत्कां चिन्तां परिहत्य केवलं प्रभुभक्तौ दत्तचित्तः, प्रभोरङगपूजामग्रपूजां च कुत्वानन्तरं चैत्यवंदनारम्भे नषेधिकीत्रिकादन्तिमनषेधिकी-विधानरूपेण परित्यक्ताऽन्यकर्तव्यः' चैत्यवंदनसमयेऽन्यसर्वकार्यत्यागं कुर्वन् सन्, (३) अत्यंतदीर्घतरकालं यावत्-'तद्भावगमनेन' चैत्यवंदनविधायकप्रणिपातदण्डकविषयकभावे गमन-प्रवेशद्वारा, यथासम्भवं साधोव्यपूजारूपोचाराभावात्, यथाऽधिकारं 'भुवनगुरोः' त्रिभुवनपूज्यतीर्थकरस्य संपादितो द्रव्यभावरूपपूजोपचारो येन सः, सम्पादितपूजोपचारः सन्, (४) ततः, तीर्थंकरप्रभुविषयकपूजासंपादनाऽनन्तरं सकल-त्रसस्थावररूप-सकलसत्त्वानामनपायिनीमबाधिकां चैत्यवंदनक्रियास्थानभूतां भुवं-भूमि 'निरीक्ष्य' चक्षुर्दारा सम्यक्समीक्ष्य 'परमगुरुप्रणीतेन विधिना' जिनेश्वरकथितेन विधिना (प्राग् ईर्यापथिक्यादिविधिद्वारा) निरीक्षणानन्तरं प्रमार्जन कर्यादिति नियमेन श्रावक उत्तरासंगरूपवस्त्रप्रान्तेन, सपौषधः श्रावकश्चरवलारूपरजोहरणेन, निर्ग्रन्थस्तु, ओघारूपरजोहरणेन प्रमार्जयेत् (भूमिप्रमार्जननामकं सप्तमं त्रिकं सत्यापितम्) यतो जैनी सर्वक्रिया यतना (जीवदयाविचार) प्रधाना भवति, अतो विशिष्टां भुवं प्रमृज्य च 'क्षितिनिहितजानुकरतलः' पंचांगीमुद्रयाऽर्थात् पंचांगीप्रणिपातत्वाद् द्वाभ्यां जानुभ्यां द्वाभ्यां कराभ्यां मस्तकेन सह स्पृष्टभमिकः सन् (अथवा द्वे जानुनी क्षितौ निधाय द्वौ करो मस्तके निधायेंत्यप्यर्थो भाव्यः) (प्रणिपातदण्डकमुद्राया विशेषचर्चाविवरणं प्रतिक्रमण-हेतु-पुस्तके दर्शनीयं) (५) 'प्रवर्द्धमानाति-तीव्रतपरिणामो'-प्रकर्षेण वर्धमानः-अत्यन्ततीव्रतरःशुभः-धर्मध्यानद्योतक-संवेगनिवेदादिरूपः परिणामो भावो यस्य स प्रवर्द्धमानातितीव्रतरशुभपरीणामः सन्, (६) 'भक्त्यतिशयान्मुदश्रुपरिपूर्णलोचनो'-उत्कृष्टभक्तिभावप्रभावजन्यानन्दतोऽश्रुभिः परिपूर्णनयनः सन्, 25
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy