SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ललितविस्त-सटीका दोषकारकं ( हानिप्रदं भवति, तद्धिताय न देयमिति वरं एतद्विषये साक्षिवचनं 'अत्यन्ताऽशान्तमतिमेति शास्त्र विषयकसद्भाव - सदाशय - सद्रहस्यस्य प्रतिपादनं दोषायैव यथा नवीन उदयमागते ज्वरे शमनीयमौषधदानम् दोषाय तथातापि ज्ञेयम् । तथा च यस्य कस्यचिज्ज्वरिणो ज्वरशमनाय दत्तमपि प्रारम्भे, औषधं विपरीतं भवति, तथापि ज्वरस्य समयपरिपाकानन्तरं ज्वरः शाम्यति, औषधमपि लाभप्रदं भवति परन्तु समयपरिपाकात् प्रागौषधमपि गुणदं न भवति, एवं वात्माऽपि संसारे जन्मादिचक्रे भ्राम्यन् २ दु: खक्लेशतापादिना खिद्यमानश्च मोक्षमभिलषन्, स्वभावतः कालतश्च भवस्थितिपरिपाकं भजन्, अत एवोत्तमधर्मरूपौ - पधमप्यन्तिमपुद्गल परावत्तं कालप्राप्तायात्मने दत्तं गुणकारकं भवति, अन्यस्मै दत्तं दोषाय जायते, एवं शब्दप्रपंचरूप विस्तरेण कृतमिति. अधिकारिण उद्दिश्य प्रस्तुताभिधानम् -: अधिकारिण एवाधिकृत्य पुरोदितान् अपक्षपातत एवं निरस्येतरान् प्रस्तुतमभिधीयत इति । टी०... पूर्वोक्तान्, अपुनर्बन्धका दीनधिकारिण: ( शुद्धदेशनाया विषयीकृत्य ) अधिकृत्य समुद्दिश्य, पक्षपातं-भेदभावमकृत्वैव 'इतरान्' - अनधिकारि-भूतान् भवाभिनन्दिनः क्षुद्रसत्त्वान् 'निरस्य' अनुद्दिश्य - दूरीकृत्य - शुद्धदेशनाया अविषयीकृत्य प्रस्तुतं - प्रस्तावायातं चैत्यवंदनसूत्रधीयते - अभिधाविषयीक्रियते । " इत्येवमधिकारिताया यथार्थनिरूपणानन्तरं चैत्यवंदनसूत्रव्याख्यारंभात् प्राक् चैत्यवंदनादौ किं वक्तव्यम् ? तस्य च को विधिरिति तन्निरूपयति शास्त्रकारः । इह प्रणिपात वण्डपूर्वकं चैत्यवंदनमिति स एवादौ व्याख्यायते टी०... ' इह' चैत्यवंदनविधिप्रसंगेऽत्र 'प्रणिपातदण्डपूर्वकं' प्रणिपातदण्ड: ( शक्रस्तवः, तीर्थंकरदेवानां नमस्कारकारकसूत्रत्वेन ( नमोत्थुणसूत्रं ) 'सव्वे तिविहेण वंदामीति यावत्, एतदन्तस्यैव वर्णगणनस्यैव वृद्धसम्प्रदायेन प्रणिपातदण्डकतया रूढत्वात् ' ) पूर्वो यस्मिंस्तत्त् प्रणिपातदण्डपूर्वकं चैत्यवंदन - मिति विधिनियमवत्त्वेन ' स एव' स - प्रणिपातदण्ड ( शक्रस्तवः - नमोत्थुणसूत्रं ) प्रथमतः - आरम्भे, व्याख्यायते आदौ - चैत्ववंदनसूत्र व्याख्यानस्य एवकारेणाऽन्यनिषेधो ज्ञेयः, विवरण विषयी क्रियते । तत्र चायं विधिः इह साधुः श्रावको वा चैत्यगृहादावेकान्तप्रयतः परित्यक्तान्यकर्त्तव्यः प्रदीर्घतरतद्भावगमनेत यथासम्भवं भुवनगुरोः सम्पादितपूजोपचारः, ततः सकलसत्त्वानपायिनीं भुवं निरीक्ष्य परमगुरुप्रणीतेन विधिना प्रमु क्षितिनिहितजानुकरतलः प्रवर्द्धमानातितीव्रतरशुभ 24
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy