SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ ६१६ तत्त्वन्यायविभाकरे मध्य उपरितनप्रतरस्य ये चत्वारो नभःप्रदेशास्तथाऽधस्तनप्रतरस्य ये चत्वारो व्योमप्रदेशास्तेषामष्टानामपि प्रदेशानां समये रुचक इति परिभाषा । अयश्चाष्टप्रदेशको रुचकस्समस्ततिर्यग्लोकमध्यवर्ती गोस्तनाकारः क्षेत्रतः षण्णामपि दिशां चतसृणामपि विदिशां प्रभव इत्याशयेनाहायञ्चति, चशब्दो भिन्नक्रम एवार्थे, तथा च तिर्यग्लोकस्यैव मध्यं, न तु लोकस्य, भगवत्यादौ रत्नप्रभाघनोदधिघनतनुवातान् गगनस्यासंख्येयभागश्चातीत्य लोकमध्यव्यवस्थितेः, तस्मादेव चोर्ध्वमधश्च सम्पूर्णास्सप्तरज्जवो भवन्ति, तदुक्तं 'घर्माघनोदधिघनतनुवातान् विहायसः । असंख्यभागश्चातीत्य मध्यं लोकस्य कीर्तितम् । अस्मादूर्ध्वमधश्चैव सम्पूर्णास्सप्तरज्जवः' इति भावः । दिग्विदिग्व्यवहारमूलमिति, अस्मादेव रुचकाद्दिशो विदिशश्च प्रभवन्ति, विजयद्वारानुसारेण प्रथमा दिगैन्द्री, ततोऽवशिष्टाः प्रदक्षिणतो भवन्ति, ऊर्ध्वञ्च विमला तमा चाधः, रुचकादारम्भात्सर्वा दिशस्साद्याः, बहिचालोकाऽऽकाशाश्रयणादपर्यवसिताः, दशापि दिशोऽनन्तप्रदेशात्मिकाः, तत्र रुचकाबहिश्चतसृष्वपि दिक्षु प्रत्येकमादौ द्वौ द्वौ नभ:प्रदेशौ भवतः, तदग्रतश्चत्वारः, तत्पुरतष्षट् ततोऽप्यग्रतोऽष्टौ व्योमप्रदेशा इत्येवं द्वयादिद्वयुत्तरश्रेण्या चतसृष्वपि दिक्षु पृथक्पृथक् नेतव्यम्, तत एताः शकटो/संस्थानाः पूर्वादिका महादिशश्चतस्रो भवन्ति, एतासाञ्च चतसृणामपि दिशां चतुर्वन्तरालकोणेष्वेकैकनभःप्रदेशनिष्पन्ना अनुत्तरा यथोत्तरं वृद्धिरहिताच्छिन्नमुक्तावलीसंस्थिताश्चतस्त्र एव विदिशो भवन्ति, ऊर्ध्वन्तु चतुरो नभःप्रदेशानादौ कृत्वा यथोत्तरं वृद्धिरहितत्वाच्चतुष्पदेशिकैव रुचकनिभा च चतुरस्रदण्डाकारैकैव भवति, अधोऽप्येवं प्रकारा द्वितीयेति, निश्चयनयेन बोध्यम, व्यवहारेण तु यत्र सवितोदेति सा प्राची, यत्रास्तं याति सा प्रतीची कर्कादिधनुरन्तान् राशीन् यत्र स्थितश्चरति सा दक्षिणा, मकरादीन् मिथुनान्तान् यत्र स्थुितश्चरति सोत्तरेति सूर्यगतिकृतो नियमः, एवं विदिशोऽपि भाव्या इति ॥ રુચકનું વર્ણન ભાવાર્થ – “ચક તો, જેનું બીજું નામ રત્નપ્રભા છે, એવી ઘર્મા નામની પૃથિવીના ઉપરના ક્ષુલ્લક બે પ્રતરવાળા-મેરુપર્વતના મધ્યમાં ઉપર અને નીચેના ભાવથી રહેલ ચતુષ્કોણ આકૃતિવાળા આઠ પ્રદેશોને “ચક કહેવામાં આવે છે. આ આઠ પ્રદેશવાળો રુચક, મધ્યલોકનો મધ્ય છે અને દિશાविशामोन भूगछे." વિવેચન – આઠ પ્રકારવાળી પૃથ્વીઓમાં ઘર્મા નામની એક પૃથ્વી છે, જેનું બીજું નામ રત્નપ્રભા છે. ત્યાં મધ્યમાં મેરુપર્વત છે અને ત્યાં લંબાઈ અને પહોળાઈથી દરેક રજુપ્રમાણવાળા સર્વ પ્રતિરોમાં ક્ષુલ્લક (તીચ્છલોકનાં મધ્યભાગમાં વર્તનાર આ બંને છે. ઉપરના ક્ષુલ્લકની અવધિ કરી ઉંચે પ્રતરવૃદ્ધિ છે. નીચેના
SR No.022496
Book TitleTattvanyaya Vibhakar Part 02
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages776
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy