SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सूत्र - ३, प्रथम किरणे तत्त्वशब्दस्य जीवादिभावबोधकस्य सामानाधिकरण्यानुरोधेन जीवादिषूपचरितत्वेऽपि विना मत्वर्थप्रत्यययोगमजहल्लिङ्गत्वेन नपुंसकत्वं, जीवादिषु वर्तमानत्वादेव बहुवचनान्तत्वञ्च । भाववाचकत्वेऽपि वा धर्मधर्मिणोः कथञ्चिदभेदेन तद्बहुत्वप्रयुक्तं बहुवचनानन्तत्वम् । जीवादिमोक्षान्तं यावद् द्वन्द्वः, तत्र कालत्रयेऽपि जीवनाज्जीवः, तद्विपरीतोऽजीवः, पुनाति प्रीणयत्यात्मानमिति पुण्यं पूयतेऽनेनेति वा पुण्यं सद्वेद्यादिकम्, तत्प्रतिद्वन्द्विरूपं पातिरक्षत्यात्मानं शुभपरिणामादिति पापमसद्वेद्यादिकम्, येन कर्मास्रवति, आस्रवणमात्रं वाऽऽस्रवः, येन संव्रियते संरुध्यते, संरोधनमात्रं वा संवरः, यया निर्जीर्यते निरस्यते, निरसनमात्रं वा निर्जरा, येन बध्यतेऽस्वतंत्रीक्रियते, बंधनमात्रं वा बन्धः, येन मोक्ष्यतेऽस्यते मोक्षणमात्रं वा मोक्षः । एतेषां लक्षणप्रभेदादयश्चाग्रे वक्ष्यन्ते । ननु पुण्यादयो न जीवाजीवाभ्यां पृथग्भूताः, यतः पुण्यपापबन्धाश्रवा अजीवरूपाः, संवरो निवृत्तिरूपो जीवपरिणामः, निर्जरा कर्मपार्थक्यापादकजीवपरिणाम: शक्तिरूप: । मोक्षोऽपि समस्तकर्मक्षयरूपः, स्थानविशेषप्राप्तिरूपः, स्वस्वरूपावस्थितिरूपो वा जीवपरिणामविशेष एव । नैते जीवाजीवाभ्यामर्थान्तरभूता इति कथं जीवाजीवाभ्यां द्वैविध्यं परिहृत्य नवधा विभाग आदृतः, मैवम्, जीवाजीवयोः परस्परोपश्लेषात्मकसंसारस्य प्रधानहेतूनां तदुपरमस्य वा परिज्ञानाभावे प्राप्यस्य मोक्षस्य परिज्ञानासम्भवेन तत्परिज्ञापनार्थं पृथगुपादानात् । सिद्ध्यसिद्धिभ्यां व्याघातेन पर्यनुयोगानुपपत्तेः । जीवाजीवाभ्यां हि पुण्यादीन्युपलभ्यार्थान्तरतया पर्यनुयोगेऽर्थान्तरत्वस्यात् एव सिद्धत्वाद् व्याघातः, अनुपलभ्य पर्यनुयोगेऽनुपलम्भादेव पर्यनुयोगे व्याघात इति, पर्यायार्पणं गौणीकृत्य द्रव्यार्पणप्राधान्येन जीवाजीवयोः कथञ्चिदन्तर्भावेऽपि द्रव्यार्पणं गौणीकृत्य पर्यायार्पणप्राधान्ये तत्र तेषामन्तर्भावासम्भवेन तदपेक्षया पृथगुपादानाच्च। नन्वस्तु तेषां पार्थक्यमेवंक्रमेण विन्यसने तु किं निबन्धनमिति चेदुच्यते, मोक्षशास्त्रं हीदम्, तथा क्रियमाणे मोक्षोपदेशे सावधिकमोक्षशब्दश्रवणाच्छ्रोतुराशङ्का स्वभावत एव जागृयात् कस्य कस्मात् कथं मोक्ष इति, तदपनोदनाय जीवस्य बन्धात् संवरनिर्जराभ्यां मोक्ष इति वाच्यम् । तत्र केन कथं बन्ध इति जागृतेऽनुयोगेऽजीवेनाऽऽस्रवद्वारा बन्ध इत्यभिधानीयम् । तत्र कियन्तोऽजीवाः किं सर्वैर्बन्ध इति पृच्छायां, पञ्चधाजीवाः, पुण्यपापात्मकपुद्गलविशेषैरेव बन्ध इति समाहिते सामान्यतो बन्धमोक्षकारणेषु हेयोपादेयत्वबुद्धिः सुलभतया स्यादतो मुक्त्याश्रयत्वेन प्राधान्याज्जीवस्य ततस्तद्विरुद्धस्याजीवस्य ततो मुक्तिप्रतिद्वन्द्विबन्धकारणत्वेन पुण्यपापाश्रवाणां मुक्तिकारणत्वेन संवरनिर्जरयोस्ततो मुक्तिप्रतिद्वन्द्विनो बन्धस्य ततः
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy