SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ सूत्र - ७६-७७, सप्तमः किरणः ५२३ ૦ ઉપશમશ્રેણિથી કે ક્ષપકશ્રેણિથી મોહનીય, ઉપશાન્ત કે ક્ષીણ થવાથી મોહવર્જીત (૭) સાત કર્મપ્રકૃતિઓનો ય સંત નિર્ગસ્થ અવસ્થામાં વેદક છે. उदीरणाद्वारमाह उदीरणाद्वारे-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिका अष्टौ सप्त षड्वा कर्मप्रकृतीरुदीरयन्ति । सूक्ष्मसम्पराय आयुर्वेदनीयवर्जषट्कर्मप्रकृतीरायुर्वेदनीयमोहवर्जपञ्चकर्मप्रकृतीर्वोदीरयति । यथाख्यातस्तु द्वे वा पञ्च वा कर्मप्रकृतीरुदीरयति चतुर्दशगुणस्थाने त्वनुदीरक इति । ७७ । उदीरणाद्वार इति । उदयावलिकातो बहिर्वतिनीनां स्थितीनां दलिकस्य कषायैस्सहितेनासहितेन वा योगसंज्ञकेन वीर्यविशेषेण समाकृष्योदयावलिकायां प्रवेशनमुदीरणा, तस्याः पञ्चस्थानानि, सप्ताष्टौ षट् पञ्च द्वे इति । अष्टाविति, प्रमत्तगुणस्थानं यावत्परिपूर्णा अष्टप्रकृतीरित्यर्थः । सप्तेति, केवलमनुभूयमानभवायुष्कावलिकावशेषे सत्यायुष आवलिकाप्रविष्टत्वेनोदीरणाया अभावादिति भावः । षड्वेति, अप्रमत्तापूर्वकरणानिवृत्तिबादरा वेदनीयायुर्वर्जानां षण्णां कर्मणामुदीरकाः, न तु वेदनीयायुषोः, तदुदीरणायोग्याध्यवसायाभावात् अतिविशुद्धत्वादिति भावः । सूक्ष्मसम्पराय इति, यावन्मोहनीयमावलिकाशेषं न भवति तावत् षण्णां, आवलिकाशेषे च मोहनीये तस्याप्युदीरणाया अभावात्पञ्चानामुदीरक इति भावः । द्वे वेति, क्षीणमोहे ज्ञानदर्शनावरणान्तरायेष्वावलिकामात्रावशिष्टेषु तेषामुदीरणाया अभावान्नामगोत्रलक्षणे द्वे एव कर्मणी उदीरयतीति भावः । पञ्च वेति, उपशान्तमोहे वेद्यमानस्यैवोदीरणानियमेन मोहनीयस्योदयाभावेनोदीरणाया अभावाद्वेदनीयायुषोश्च पूर्वोक्तकारणेनाभावात्, क्षीणमोहे मोहस्य क्षीणत्वाच्च पञ्चानां कर्मणामुदीरक इति भावः । अनुदीरक इति, उदीरणाया योगसव्यपेक्षत्वेन तत्र योगाभावादिति भावः ॥ (२४) ही२९॥२भावार्थ - सामायि-छोपस्थापनीय-परिवारविशुद्धिी मा6 (८), सात (७) अथवा ७ (६) કર્મપ્રકૃતિઓની ઉદીરણા કરે છે. સૂક્ષ્મસંપરાય સંયતને આયુષ્ય-વેદનીયને છોડી છ (૬) કર્મપ્રકૃતિઓની અથવા આયુષ્ય-વેદનીય-મોહનીયને છોડી પાંચ (૫) કર્મપ્રકૃતિઓની ઉદીરણા હોય છે. યથાખ્યાત સંયતને તો બે અથવા પાંચ (૫) કર્મપ્રકૃતિઓની ઉદીરણા હોય છે. ચૌદ(૧૪)માં ગુણસ્થાનમાં યથાખ્યાત સંયત તો उहा२९॥ वरना होय छे. . વિવેચન - ઉદીરણા એટલે ઉદયાવલિકાથી બહાર વર્તનારી સ્થિતિઓના દલિકોનો કષાયોની સાથે રહેલ કે સાથે નહિ રહેલ યોગ નામના વિશિષ્ટ વીર્યદ્વારા ખેંચીને ઉદયાવલિકામાં પ્રવેશ કરાવવો.
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy