SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ७० षड्दर्शनसमुचयः सटोकः । कार्यत्वेन शेषवतोऽनुमानादस्य भेदो न स्यात् । यद्यपि गगने संचरतः सूर्यस्य नेत्रावलोकप्रसराभावेन गतिर्नोपलभ्यते, तथाप्युदयाचलात्कालान्तरेऽस्ताचलचूलिकादौ तद्दर्शनं गतिं गमयति । प्रयोगः पुनः पुर्वमुक्त एव । श्रथवा देशान्तरप्राप्तेर्गतिकार्यत्वं 5 लोको न प्रत्येतीति इदमुदाहरणं कार्यकारणभावाविवचयाचोपन्यस्तम् । प्रयोगस्त्वेवम् । सूर्यस्य देशान्तरप्राप्तिर्गतिपूर्विका देशान्तरप्राप्तित्वाद्देवदत्तदेशान्तरप्राप्तिवत् ॥ उपमानलक्षणमाह । 10 प्रसिद्धवस्तुसाधर्म्यादप्रसिद्धस्य साधनम् । उपमानं समाख्यातं यथा गौर्गवयस्तथा ॥ २३ ॥ “प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् [२, २, ६ ]” इति सूत्रम् । श्रत्र यत इत्यध्याहार्यम् । ततश्च प्रसिद्धेन वस्तुना गवा यत्माधर्म्यं समानधर्मत्वं तस्मात्प्रसिद्धवस्तुसाधर्म्यादप्रसिद्धस्य साधनम् । गवयगतस्य साध्यस्य संज्ञासंज्ञिसंबन्धस्य साधनं प्रतिपत्ति15 र्यतः साधर्म्यज्ञानाद्भवति तदुपमानं समाख्यातम् । साधर्म्यस्य प्रसिद्धिरागमपूर्विका । तत श्रागमसंसूचनायाह । यथा गौस्तथा गवय इति । गवयोऽरण्यगवयः । श्रयमत्र भावः । कचित्प्रभुणा गवयानयनाय प्रेषितस्तदर्थमजानानस्तमेवाप्राचीत् कीदृग्गवय इति । स प्रोचे चादृग्गौस्तादृग्गवय इति । ततः सोऽर परि20 भ्रमन्समानमर्थं यदा पश्यति, तदा तस्य तद्वाक्यार्थस्कृतिमायेन्द्रियार्थसन्निकर्षागोसदृशोऽयमिति यत्सारूप्यज्ज्ञानमुत्पद्यते,
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy