SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ नैयायिकमतम् । तत्प्रत्यक्षफलं, तदेवाव्यभिचार्यादिविशेषणमयं म गवयशब्दवाच्य इति संज्ञासंज्ञिसंबन्धप्रतिपत्तिं जनयदुपमानम् । संज्ञामंजिसंबन्धप्रतिपत्तिस्तूपमानस्य फलम्। न पुनरागमिको सा, शब्दस्य तजनकस्य तदानीमभावात् । गवयपिण्डविषये च हेयादिज्ञानं यदुत्पद्यते तदिन्द्रियार्थमनिकर्षजन्यत्वात्प्रत्यक्षफलम् ॥ अथ तुर्य शाब्दमाह। - - शाब्दमाप्तोपदेशस्तु मानमेवं चतुर्विधम् । प्रमेयं ल्वात्मदेहाधं बुधौन्द्रियसुखादि च ॥ २४ ॥ शब्दजनितं माब्दमागम इत्यर्थः । तर्भिन्नक्रमे। शाब्दं तु । प्रमाणमाप्तोपदेशः । प्राप्त एकान्तेन सत्यवादी हितश्च । तस्योप- 10 देशो वचनमाप्तोपदेशः। तन्ननितं न ज्ञानं भाब्दस्य फलम् । मानं प्रमाणमेवमुक्तविधिना चतुर्विधम् ॥ ... तदेवं प्रथमं प्रमाणतत्त्वं व्याख्याय संप्रति द्वितीयं प्रमेयतत्त्वं व्याख्यातुमाह। प्रमेयं त्वात्मदेहाद्यम् । प्रमेयं तु प्रमाणफलस्य ग्राह्यं पुनरात्मदेहाद्यम् । श्रात्मा जीवः । देहो 15 वपुः, तावाद्यौ यस्य तदात्मदेहाद्यम् । बुद्धौन्द्रियसुखादि च प्रमेयम् । बुद्धिर्ज्ञानं, इन्द्रियं चक्षुरादिमनःपर्यन्तं, सुखं मातं तान्यादिर्यस्य तदुद्धौन्द्रियसुखादि। चकार श्रात्मदेहाद्यपेक्षया समुच्चये। अत्र विशेषणदय श्राद्यशब्देनादिशब्देन च शेषाणामपि सप्तानां प्रमेयानां संग्रहो द्रश्वव्यः । तथा च नैयायिकसूत्रम् । 20 "आत्मभरोरेन्द्रियार्थबुद्धिमानःप्रवृत्तिदोषप्रेत्यभावफलदुःखाप
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy