SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ घड्दनसमुच्चयः सटोकः । परिमाणत्वादिति । तदेवं गणनातिगाः परसमया भवन्ति । अथवा सूत्रकृदाख्ये द्वितीयेऽङ्गे परप्रवादुकानां त्रीणि शतानि विषयधिकानि परिसंख्यायन्ते । तदर्थसंग्रहगाथेयं । अमिदमयं किरियाणं अकिरियवाईण हो चुलमोई । अन्नाणित्र सत्तट्ठी वेणयाणं च बत्तीसं ॥ १ ॥ __ अस्या व्याख्या ॥ अशोत्यधिकं शतम्। किरियाणंति क्रियावादिनाम् ॥ तत्र क्रियां जीवाद्यस्तित्वं वदन्तीत्येवंशीलाः क्रियावादिनः, मरीचिकुमारकपिलोलूकमाठरप्रभृतयः । ते पुनरमुनोपायेनामौत्यधिकशतसंख्या विज्ञेयाः। जीवाजी10 वासवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपान्नव पदार्थान् परिपाच्या पट्टिकादौ विरचय्य जीवपदार्थस्याधः खपरभेदावुपन्यसनीयौ । तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिखभावभेदाः पञ्च न्यसनीयाः । ततश्चैवं विकल्पाः कर्तव्याः । तद्यथा ॥ 15 अस्ति जीवः खतो नित्यः कालत इत्येको विकल्पः । अस्य च विकल्पस्यायमर्थः । विद्यते खल्वयमात्मा स्खेन रूपेण नित्यश्च कालतः कालवादिनो मते । कालवादिनश्च नाम ते मन्तव्या ये कालकृतमेव जगत्सर्वं मन्यन्ते । तथा च ते प्राहुः । न कालमन्तरेण चम्पका शोकसहकारादिवनस्पतिकुसुमोद्गमफल20 बन्धादयो हिमकणानुषकशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वर्तुविभागसंपादिता बालकुमारयौवनवलिपलितागमादयो बावस्थाविशेषा घटन्ते, प्रतिनियतकालविभागत एव तेषा
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy