SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ [प्रस्तावना] मुपलभ्यमानत्वात्। अन्यथा सर्वमव्यवस्थथा भवेत् । न चैतेदृष्टमिष्टं वा । अपि च । मुगपतिरपि न कालमन्तरेण लोके भवन्तौ दृश्यते । किं तु कालक्रमेण । अन्यथा स्थालौन्धनादिसामग्रीसंपर्कसंभवे प्रथमसमयेऽपि तस्या भावो भवेत् । न च भवति । तस्माद्यत्कृतकं तत्म कालकतमिति। तथा चोक्तम्। । न कालव्यतिरेकेण गर्भबालशभादिकम् । यत्किंचिज्जायते लोके तदसौ कारणं किल ॥ १ ॥ ८किं च कालाइते नैव मुद्गपक्तिरपौक्ष्यते । स्थाल्यादिसंनिधानेऽपि ततः कालादमौ मता ॥ २ ॥ कालाभावे च गर्भादि सर्व स्यादव्यवस्थया । 10 परेष्टहेतुमद्भावमात्रादेव तदुद्भवात् ॥ ३॥ काल: पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ ४ ॥ अत्र परेष्टहेतुमद्भावमात्रादिति पराभिमतवनितापुरुषसंयोगादिरूपहेतुमद्भावमात्रादेव तदुद्भवादिति गर्भाशुद्भव- 15 प्रसङ्गात् । तथा कालः पचति, परिपाकं नयति परिणतिं नयति भूतानि पृथिव्यादौनि । तथा कालः संहरते प्रजाः, पूर्वपर्यायात्यच्याव्य पर्यायान्तरेण प्रजा लोकान्स्थापयति । तथा काल: सुप्तेषु जागर्ति, काल एव सुप्तं जनमापदो रक्षतीति भावः । तस्माद् हि स्फुटं दुरतिक्रमोऽपाकर्तमशक्यः 20 काल इति ॥ उतनैव प्रकारेण द्वितीयोऽपि विकल्पो नवरं कालवादिन
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy