SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ [प्रस्तावना] नन्वत्र सर्वदर्शनवाच्योऽर्थो वक्तुं प्रक्रान्तः, स च संख्यातिकान्तः। तत्कथं स्वल्पीयमानेन प्रस्तुतशास्त्रेण मोऽभिधातुं शक्यो, जैनादन्यदर्शनाना परसमयापरनामधेयानामसंख्यातत्वात् । तदुक्तं सम्मतिसूत्रे श्रौमिद्धसेनदिवाकरेण *जावया वयणपहा तावया चेव इंति नयवाया । । जावया नयवाया तावया चेव परसमया ॥१॥ व्याख्या ॥ अनन्तधर्मात्मकस्थ वस्तुनो य एकदेशोऽन्यदेश निरपेक्षस्तस्य यदवधारणं सोऽपरिशद्धो नयः । स एव च वचनमार्ग उच्यते । एवं चानन्तधर्मात्मकस्य सर्वस्य वस्तुन एकदेशानामितरांशनिरपेक्षाणां यावन्तोऽवधारणप्रकाराः संभ- 1a वन्ति, तावन्तो नया अपरिशुद्धा भवन्ति । ते च वचनमार्गा इत्युच्यन्ते ॥ ततोऽयं गाथार्थः । सर्वस्मिन् वस्तुनि यावन्तो यावत्संख्या वचनपथा वचनानामन्योन्यैकदेशवाचकानां शब्दाना मार्गा अवधारणप्रकारा भवन्ति, तावन्त एव भवन्ति नयवादाः, नयानां तत्तदेकदेशावधारणप्रकाराणं वादाः प्रतिपादकाः 15 शब्दप्रकाराः। यावन्तो नयवादा एकैकांशावधारणवाचकशब्दप्रकाराः, तावन्त एव परसमया परदर्शनानि भवन्ति, खेच्छाप्रकल्पितविकल्पनिबन्धनत्वात्परसमयानां विकल्पानां चासंख्यत्वात् । अयं भावः । यावन्तो जने तत्तदपरापरवस्त्वेकदेशानामवधारणप्रतिपादकाः शब्दप्रकारा भवेयुस्तावन्त एव 20 परसमया भवन्ति । ततस्तेषामपरिमितत्वमेव स्खकल्पनाशिल्पिघटितविकल्पानामनियतत्वात् तदुत्थप्रवादानामपि तत्संख्या 2
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy