SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ घडदर्शनसमुच्चयः सटोकः । स्याद्वाददेशक, प्रागुक्तस्याद्वादभाषकम् । एवंविधमपि कुत इत्याह । यतो जिनं रागद्वेषादिजयनशीलम् । जिनो हि वीतरागत्वादसत्यं न भाषते, तत्कारणाभावादिति भावः । शेषश्लोकव्याख्यानं प्राम्वत् ॥ एवं चात्रैवमुक्तं भवति । ये हि 5 श्रीवौरस्य यथावदाप्तत्वादिपरौचां विधास्यन्ते स्थाबादं च तत्प्रणीतं मध्यस्थतया सम्यगवलोक्य पश्चात्परमतान्यप्यालोकयिष्यन्ते, ते सत्यासत्यदर्शनविभागमपि स्वयमेवावभोत्स्यन्ते । किमस्मदचनस्यास्थाकरणाकरणेनेति। एतेन ग्रन्थकता सर्वथात्रार्थ माध्यस्थ्यमेव दर्शितं द्रष्टव्यं, मत्यासत्यदर्शनविभागपरिज्ञानो10 पायश्च हितबुद्ध्यात्राभिहितोऽवगन्तव्यः, पुरातनैरपौत्थमेव सत्यासत्यदर्शनविभागस्य करणत् । तदुक्तं पूज्यश्रीहरिभद्र-.. सूरिभिरेव लोकतत्त्वनिर्णये । बन्धुर्न नः स भगवान् रिपवोऽपि नान्ये साक्षान्न दृष्टचर एकतरोऽपि चैषाम् । शुत्वा वचः सुचरितं च पृथविशेषं वौरं गुणातिशयलोलतया श्रिताः स्मः ॥ १ ॥ पक्षपातो न मे वौरे न द्वेषः कपिलादिषु । युक्तिमवचनं यस्य तस्य कार्यः परिग्रहः ॥ २ ॥ प्रभुश्रीहेममूरिभिरप्युक्तं वौरस्तुतौ । 20 न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीचया तु त्वामेव वीर प्रभुमाश्रिताः स्मः॥१॥ इति ॥ 15
SR No.022457
Book TitleShad Darshan Samucchay
Original Sutra AuthorN/A
AuthorLuigi Suali
PublisherAsiatic Society
Publication Year1905
Total Pages196
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy