SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ विद्या टीका श्लो० ६६-६७ ] १२७ मावानामिह प्रत्ययहेतुर्यः सम्बन्धः स समवायः । यथा-दह तन्तुषु पट इत्यादेः प्रत्ययस्यासाधारणं कारणं समवायो यद्वशात् स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्य तन्त्वाद्याधारे सम्बध्यते, यथा च्छिदिक्रिया छेद्येनेति । अयुतसिद्धानामिति परस्परपरिहारेण पृथगाश्रयानाश्रितानामाश्रयाश्रयिभाव इति । परस्परवैयै तु विविक्तैरभ्यूह्यं षण्णामपि पदार्थानां स्वरूपकथनमात्राधिकृतत्वाद्ग्रन्थस्य नेह विस्तरः प्रतन्यत इति ॥ ६६ ॥ प्रमाणव्यक्तिमाह- प्रमाणं च द्विधाऽमीषां, प्रत्यक्षं लैङ्गिकं तथा । 'वैशेषिकमतस्यैवं, संक्षेपः परिकीर्त्तितः ॥६७॥ व्याख्या -- यद्यप्यौलुक्यशासने व्योमशिवाचार्योक्तानि त्रीणि प्रमाणानि तथापि श्रीधरमतापेक्षयात्रो एव निगदिते । अमीषां वैशेषिकाणां प्रमाणं द्विधा द्विप्रकारं चः पुनरर्थे, कथमित्याह - प्रत्यक्षमेकं प्रमाणम् । तथेति द्वितीय भेदपरामर्शे लेकिमनुमानं, उपसंहरन्नाह - एवमिति प्रकारचनम् । यद्यपि प्रमातृकलाद्यपेक्षया बहु वक्तव्यं तथाप्येवम्- अमुना प्रकारेण वैशेषिक+ 'स्यैष, संध. बृ० वृ० पृ. ११३/१ ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy