________________
[ षड्दर्शनस०
१२८
अन्त्यैषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद्विशेषाः विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकशो वर्त्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः यथाऽस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृति क्रियावयवोपचयावयवविशेष संयोग निमित्ता प्रत्ययव्यावृत्तिर्दृश - ' गौः शुक्लः पीनः शीघ्रगतिः ककुद्मान् महाघण्ट' इति, तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृति - गुणकियेषु परमाणुषु मुक्तात्ममनःसु वान्यनिमित्ताऽसम्भवाद्येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं 'विलक्षणोऽयमिति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च परमाणौ 'स एवायमिति प्रत्यभिज्ञानं भवति तेऽन्त्या विशेषा" इति ।
च
१२६
6:
अमी च विशेषरूपा एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपाः, व्यावृत्तेरेव हेतुत्वादिति पद्यार्थः ॥ ६५ ॥
समवायपदार्थव्यक्तिलक्षणमाह
य इहायुतसिद्धाना - माधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्यय-हेतुः प्रोक्तः स समवायः ॥६६॥ व्याख्या - इह प्रस्तुतमते अयुतसिद्धानामाधार्याधारभूत
१२८ विशेषप्रकरणे प्रशस्तपादभाष्ये पृ. १६८" इति स्या० मं० पृ. ४३ ।
"(
* कृतिगुणक्रियावयवसंयोग ( ब० वृ० पृ. ११२ ) 'कृतिगुणक्रियावयवोप वयावयसंयोग० ( स्या० मं० पृ० ४४. 'विशेष संयोग' इत्यपिपाठः, प्रशस्तपादभाष्ये ऽनुपलब्धेः,” इति तत्र टिप्पणी )
+ तुः सो भवति समध. ।