SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १२८ [ षड्दर्शनस० १२८ मतस्य संक्षेपः परिकीर्तितः कथित इति ॥ ६७ ॥ षष्ठं दर्शनमाह-- जैमनीयाः पुनः प्राहुः, सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि, यस्य मानं वचो भवेत्॥६॥ व्याख्या-जैमनिमुनेरमी जैमनीयाः, पुत्रपौत्राद्यर्थे तद्धित १२९ “अथात्राप्यनुक्तं किंचिदुच्यते-व्योमादिकं नित्यं, प्रदीपादि कियत्कालावस्थायि, बुद्धिसुखादिकं च क्षणिकं, चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्च धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवायसम्बन्धेन संबद्धाः, स च समवायो नित्यः सर्वगत एकच, सर्वगत आत्मा, बुद्धिसुखदुःखेच्छाधर्माधर्मप्रयत्नभावनाख्यसंस्कारद्वेषाणां नवानामात्मविशेषगुणानामुच्छेदो मोक्षः, परस्परविभक्तौ सामान्यविशेषौ द्रव्यपर्यायौ च प्रमाणगोचरः, द्रव्यगुणादिषु षट्सु पदार्थेषु स्वरूपसत्त्वं वस्तुत्वनिबन्धनं विद्यते, द्रव्यगुणकर्मसु च सत्तासम्बन्धो वर्तते सामान्यविशेषसमवायेषु च स नास्तीति । षट्पदार्थी कणादकृता, तद्भाष्यं प्रशस्तकरकृतं, तट्टीका कन्दली श्रीधराचार्यांया, किरणावली तूदयनसंदृब्धा, व्योममतिर्योमशिवाचार्यविरचिता लीलावतीतर्की, श्रीवत्साचार्यांय आत्रेयतन्त्रं चेत्यादयो वैशेषिकतर्काः।" इति बृ० ४० पृ. ११४ तः प्रासङ्गिकं टिप्पितम्, अधिकं च किञ्चिन्नैयायिकदर्शनप्रान्तकृतटिप्पनतो विज्ञेयम् ।
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy