SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ नयरहस्यप्रकरणम् । भूपालेन च मेदपाटपतिना दृष्ट्वा तपो दुष्करं सान्वर्थे च महातपा इति पदं यस्मै ददे सम्मदात् । पुण्यात्मा विदधे ततः स च जगञ्चन्द्राभिधः सूरिराट् षष्ठं प्रष्ठगुणालयं किल तपागच्छं सदच्छाशयम् ॥ ६ ॥ गच्छेऽमिश्च परम्परागत महोवैशद्यलीलालये श्रद्धाचारचितां कुलालयमये राद्धान्तमार्गाध्वगे । श्रीहीरेण जिनेन्द्रशासन शिरोहीरेण धीरेण च १८१ भूपालाकबरप्रबोधनकृता पुण्यात्मना सूरिणा ॥ ७ ॥ मोहेलापतिपाटने पटुतमे सद्धर्मसेनाकरे श्रीसेनेन च सैनिकेन गुणिना श्रेयोऽर्थिना सूरिणा । श्रीदेवेन च सूरिणा विबुधतास्कार्ति परां बिभ्रता श्रीसिंहेन च पापना गहरिणा श्रीसूरिणोल्लासिते ॥ ८ ॥ पृथ्वीं पादप्रचारतो विदधतो ध्वस्तान्धकारां वरां निर्मातुः रामसागरोदयरमां सद्वृत्तताशालिनः । सत्सौम्याकृतिमालिनः कुवलयाऽऽनन्दं ददानस्य व साधोस्तारकपस्य वृद्धिविजयाभिख्यस्य वै सद्गुरोः ॥ ९ ॥ पादाम्भोजरजोमरन्दमधुपो विद्याविलासालयो भूपालावलिमौलिलालितपदाम्भोजो जनानन्ददः । उच्चाचारप्रचारप्रोद्यतमना नानामुनीनां गुरुः प्रोsोढाऽऽगमयोगमुच्चविधिना प्रस्थानपञ्चत्परः ॥ १० ॥ स्वं चास्वं समयं सदा सहृदयं विद्वांश्व दिव्याकृतिनित्यं धर्मकथाविधौ विलसता माधुर्यमाबिभ्रता । गम्भीरध्वनिना घनाघनरवं हास्यास्पदं कुर्वता तारेणाखिलभव्यकेकिनिकराऽऽनन्दं ददानः सना ॥ ११ ॥ तीर्थानामवने समुद्धृतिकृतौ लीनान्तरालः सदा शीलं शैशवतोऽमलं च कलयन्नाचार्यचूलामणिः ।
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy