SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प्रमोदावृतिसंवलितं सम्राट् श्रीजिनशासनस्य वसतिः प्रौढप्रतापश्रियो राराजीतितरां जगद्गुरुरयं श्रीनेमिसूरीश्वरः ॥ १२ ॥ वसन्ततिलकावृत्ते] ईडे सुदर्शनधरं पुरुषोत्तमं तं मैत्रीयुतं समुदयश्रियमादधानम् । सन्नन्दनं सुमनसामनुरागच विज्ञानतामरसतामरसाकरं च ॥ १३॥ भव्यालिपङ्कविकलं जडतातिगं च नित्यं पुनानमखिलं किल साधुपद्मम्। सन्दर्शिताऽमृतपथं वरदेशनातो लावण्यमन्दिरमुदारमनोऽभिरामम् ॥१४॥ [ उपजातिवृत्ते] नम्यं नरेन्द्रैः सुजयन्तमार्यदक्षं सुशीलोच्चविशुद्धचित्तम् ।। कल्याणभृत्केवलनामधेयजिनप्रभोल्लासितभावविज्ञम् ॥ १५ ॥ सञ्चन्दनं सजनतापहारं प्रौढप्रभावं विबुधार्चितं च । सन्मङ्गलं सच्चरणादिकान्तं मतीशमान्यं गुणराजिरम्यम् ॥ १६ ।। तस्यानल्पगुणस्य नेमिसुगुरोः सत्पट्टपद्माकरे ___ लावण्येन कजेन रैवतगिरौ नत्वा शिवानन्दनम् । आशाकाशदृशा मितेऽर्कसमये सञ्चैत्रराकादिने ग्रन्थे श्रीनयगे रहस्यविदिते टीका प्रमोदा कृता ॥ १७ ॥ चन्द्रार्कमहिमा यावद् भाति कान्तिकृतो भुवि । तावद् विवेकशालिनां ग्रन्थोऽयं हृदि नन्दतु ॥ १८ ॥ १० ० ॥ इति प्रमोदाविवृतिः संपूर्णा ॥ टीकाग्रम्-प्रायस्त्रीणि सहस्राणि ॥ .
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy