SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ प्रमोदाविवृतिसंवलितं vvvvvv छद्मस्थेषु सदस्खल गतितया दोषप्रबन्धान्वये नो हास्यास्पदमत्र दोषघटनायो स्यामहं धीमताम् । नो प्रार्थ्याः कृतिनो निसर्गग रमावासा मया शोधने येषां दोषगणप्रमार्जनविधिः स्वाभाधिकोऽयं यतः ॥१॥ प्रशस्तिः [ उपजातिवृत्तम् ] श्रीनाभिजातं शुभशान्तिनाथं सुभव्यराजीनयनामृतं च । प्रकाशिपं श्रीशुभवर्द्धमानं नमामि नित्यं जिनराजराजम् ॥१॥ . [शार्दूलविक्रीडितवृत्तानि ] लोकालोकविलोकिनो जिनपतेः दुरीकृतांहस्ततेः सोल्लासैरमराधिपः कृतनतेः सूर्यातिगाङ्गद्युतेः । गीरीशस्य च नश्च शासनपतेः सिद्धार्थसत्सन्ततः पट्ट धर्मधुरन्धरं विजयते वीरप्रभोः सन्मतेः ॥ २॥ तत्र श्रीश्रुतकेवली गणिमणिश्चारित्रचूलामणिः निर्ग्रन्थाभिधमच्छगच्छमतनोत् स्वामी सुधर्माभिधः । कोटीशः किल सरिमन्त्रकलनात् कोटीति नाम्नोज्ज्वलं __गच्छं चाच्छमतिश्च सुस्थित इति श्रीसूरिपोऽनु व्यधात् ॥ चन्द्रं चन्द्रकलाकलापधवलं भूयोयशोमालिन गच्छं चानुचकार चारुचरणः, श्रीचन्द्रसूरीश्वरः । तत्रैवानु च सरिराट् शमनिधिः सामन्तभद्राभिधः व्यातेने वनवासिगच्छममलं लीनं गुणानां गणे ॥४॥ संतापापहरं समाश्रितनृणां शाखावलीलालितं दीक्षादानशुभास्पदं सुचरणाबद्धं विशालोन्नतम् । श्रेयांसं वटगच्छमच्छमतुलं सत्पुण्यपण्यापणम् आचार्याधिप आततान तदनु श्रीसर्वदेवाभिधः ॥ ५ ॥
SR No.022443
Book TitleNayrahasya Prakaranam Pramodadi Vrutti
Original Sutra AuthorN/A
AuthorYashovijay, Lavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy