________________
न्यायावतारः
.BDO.B.D.2000000000000000000200.००००००००००००००००००००००००००००००००००००००.................
जते।अन्त्ये तु, सावयवतापत्तिः समवायस्य । तथा च अवयवावयविनोः समवायस्वीकारात्तत्रापि समवायस्वीकारोऽपरिहार्यो यमदण्ड आपतेदेव । अन्यच्चासौ समवाय उपलक्ष्य जात्यादीन् समवैति व्यक्त्यादिनोत समवीयमानान् स्वयं तान्प्रयोजयति ? । आये, अहो ! समवायस्य सर्वव्याप्तिमत्त्वाच्चैतन्यमत्त्वाद् द्रव्यगुणयोगादिविधातृस्वाच्चायत्नसिद्धम विधातृत्वम् । अन्त्ये तु; विधातारमुपालभस्व येनासमवायं योजिताः पूर्वमे त्यलम् कल्पनाकल्पितमात्रार्थवादनिपुणैः । विशिष्टता च सम्बन्धाविनाभाविनीत्यपि न बाधकम् । यतोऽस्त्येवाविष्वग्भावरूपः सम्बन्धो द्वयोरेषैव चायुतसिद्धता युक्तति स्वभावत एव जीवे चेतनेति । न चाईति स्वभावः पर्यनुयोगम् । अन्यथा शक्यते भवानपि पर्यनुयोक्तु केनापि यदुत-कथमग्निदहति नैवाप इति युक्तमुक्तम् 'निर्भासीति । स्वान्यनिर्भासकत्वाभावे च प्रमातृत्वमेव न स्यात्। परनिर्भास्यत्वे तस्याप्यपरनिर्भास्यत्वे न कदाप्यकुरयेद् बोधबीजं घ्रातमनवस्थया। न च वाच्य स्वयं स्वस्कन्धम नारोढुम् समर्थः सुदक्षिणोऽपि, नवा सुनिशितापि शस्त्री स्वां छिनत्तीति न सुनिपुणोऽपि प्रमाता खं प्रमातुमलम्भबिष्णुरिति । नहि दृष्टान्तमात्रेणार्थप्रत्ययो यथार्थप्रतीषिषूणां भवेद् । अन्यथा मृगतृष्णाया अलीकत्वेन स्वात्मनोप्यलीकत्वम् । अत एघोक्तम् प्राग् यदुत
अन्तर्व्याप्त्यैव साध्यस्य सिद्ध बहिरुदाहृतिः । व्यर्थैव तदसद्भावेप्येवं न्यायविदो विदु' ॥ रिति । न च भवति कस्याप्येवं प्रत्ययो यदुत-अहं मां न जानामीति। किंतु दुःख्यह सुस्यहमित्यादौ स्पष्टैव सुखसमानाधिकरणकाऽहंता ज्ञानवत्ताऽत्मनः। न च स्याहतेऽनुभवापलापसामर्थ्यम् अनात्मनीनात्परेषाम । दृष्टान्तो न च नास्त्यत्र । यथा न.पृथ्वीप्रभासनप्रत्यलप्रभापतेर्भासने अन्यसूर्यसमीहा, उद्योतिताखिलापान्तराले दीपे वाऽन्यदीपवाञ्छा विनान्धितदृष्टीन् भवत्यन्येषाम् । तेषां तु भाऽवेपि तथात्वमेव । एवमत्रापि