SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७८ - न्यायावतारः .0000000000000000000000000000000०००००००००००००००००००००००००००००००००००००००००००००.......... तिवचनात् सर्वत्राप्याकाशादीनां सत्त्वात किमिति नैतानि चेतयन्ति ? कथं वा व्यपदिश्यते आत्मनां चेतनेति ?, समवायोऽपि कथमेषां समानदेशस्थितत्वेऽपि जीवेनैव चेतनायाः सम्बन्ध जाघटीति ? । सम्बन्धश्च वियुक्तयोर्मीलनम । न तावच्चेतना जीवो वाऽन्योऽन्यम् वियुक्तो दरीदृषो दृष्टिमता केनापि । न च समवायोऽपीक्ष्यते निपुणावेक्षणापरैरपि काष्ठद्वययोजनायुक्तकीलकादिवत् । इहेदमिति मत्या चेत्सम्बन्धाकाङ्क्षालाघवाच्चैकः समवायः कल्प्यतेऽन्यथानन्तसम्बन्धकल्पनाप्रसङ्गात् । तदपि न निरन्तरसुहृदोऽन्तरा प्रत्येष्यन्त्यपरे । यतः सम्बन्धस्योभयवृत्तित्वनियमादिह द्रव्ये गुणे वा समवाय इति प्रत्ययोऽस्ति न वा ? | आये, तत्रापि सम्बन्धान्तरं समवायो वाऽन्यः कल्पनीयो, भविष्यति चानन्तानवस्थावल्लरी मूलक्षयकरी प्ररूद्वैवं सति । स्वरूपसम्बन्धेन समाधाने तु किमिति प्रथमतस्तदुल्लङ्घनेन प्रत्यपायभाजनं बोभूयते भूयो भावद्भिः। अन्त्ये च, स्पष्टं समवायाभावोऽभ्युपगतो भवेत् । न च कल्पनासहस्रेणापि शाशक्यते शक्तिसंग्रहैकविधात्रापि शशशृङ्गमुत्पादयितु, येन कल्पितः समवायः पदार्थरूपतामारोहेत जगति । अनन्तसंबंधकल्पनागौरवं च स्वाभिमताय विश्वविधात्रे अल्पबुद्धिकत्वहेतुतयोपालम्भविषये प्रणेयं, नान्येषां कथनीयं कथमपि तत् । किञ्च-समवायोऽपि भवत्कल्पितः सर्वत्र जगति वर्तते एकदेशे वा घटादौ ? । सर्वत्र चेत्, वाय्वाकाशादौ रूपचेतनादिसमवाये किं बाधकं ?, न तत्र रूपं चेतना वेति चेत्, ननु केयं बालक्रीडा, यदि तत्र रूपं चेतना वा भवेत् स्वतः, किं शिखण्डिना ? सम्बध्यते चेत्तेन, नवीनेश्वरावतारः कणादो महीयान् महीयसां कालादीनां समग्राणां चैतन्यादिविधाता । परम् दरिद्राणां जायन्तेऽफलिनोपि मनोरथाः। न चासौ तु महर्षेरभूदिति दुर्भाग्यं महज्जगतः । सर्वत्र वर्तमानोप्ययं किं सर्वात्मना वर्तेत देशेन वा ? । आद्य, स्पष्टमनन्त सनवायकल्पनापत्तिर्मनोरथमहीरुहोन्मूलने करिणीव विभ्रा
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy