________________
८०
न्यायावतारः
100000000000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००...0000000
स्व ऽन्याऽऽभासके आत्मनि नान्यप्रकाशकेच्छाऽनात्मगृहाम्। योगशास्त्रकारास्तूचुः स्पष्टमेव-'श्रात्मानमात्मना वेत्ति भोहत्यागाद्य आत्मनी'त्यादि । ननु कथमिदं जाघटीति परस्परविरुद्धम् कर्मत्वम् कर्त्तत्वम् करणत्वमपादानत्वमधिकरणत्वं चेति चेन्न सागस्यतै वैकान्तबादाकान्तकृपाणकषितजगत्स्वभावानां पदार्थद्रु हाम् । स्याद्वादिना तु कथञ्चिद् गुणगुणिनोः भेदाभेदवादेन स्यादेव युक्तियुक्तमेतत् । यतोद्रव्य. रूप आत्मनि ज्ञानरूपेणात्मना सततोपयोगैकस्वभावमात्मानं स्वभावस्थितं स्वरूपरमणं वा निरुपाधितया शुद्धरूप उपयोगात्मा स्यादेवालं वेदने । भवत्येव चायमेव प्रत्ययो विदितविश्वभावानां सर्पः स्वशरीरं स्वशरीरेण स्वशरीरे वेष्टयतीतिदर्शनेन स्पष्टः । स्कन्धादिदृष्टान्तश्च युक्त एव भवतामिव तेषां स्तब्धत्वात् स्वेषां स्वेषु किमपि कर्तुं मशक्यत्वात् । न चैतावता सर्वेष्येवम्भूताः पदार्थबाता इति प्रत्येति प्रतीतिनिपुणः । न चानवभासकत्व आत्मनो ज्ञानसहस्रेणापि ज्ञानवत्ताप्रतीतिः । अन्यथाऽऽकाशेऽपि स्यात्तथाप्रसङ्गः । न च न प्रतीयत आत्मनि ज्ञान ज्ञानेनावभासनं तथेति वाच्यम् । यतो ज्ञानवानहमिति प्रतीतिर्नोपायसहस्रणापि आत्मनः स्वावभासकत्वमन्तरेण प्राप्नोत्यौचित्यपदवीम् । ज्ञानस्यैकस्य तथात्वे चाहमात्मनीत्येव स्यात्प्रत्ययो, न तु पूर्वोक्तः । तथैव ज्ञानानवभासकत्वेऽपि न ज्ञानमुत्लन्नमपि जानीयादसाविति कथङ्कारम् जञ्जल्पत्यसौ ज्ञानवानहमित्यज्ञानात्मेवेति । नादर्शनो देदीप्यमानदीपपक्तिमपि प्रत्येति कदापि । न च नार्थो ज्ञानेन तर्हि, स्वान्यावभासकेनात्मनैव तत्कार्यविधानादिति वाच्यम् । स्वज्ञानावभासकत्वेपीतरावभासने तस्य सोपयोगतरत्वात् । मत्या श्रुतेनानुमानेन जानामीत्यादिप्रत्ययादपि स्वीकार्यवान्यत्रावभा - सने ज्ञानस्योपयोगितेति न गतार्थता ज्ञानेन स्वपरप्रकाशरूपेणात्मनः स्वान्यावभासकत्वस्येति सुष्ठतम्-'स्वान्यनिर्भासीति । स्वभावतः स्वान्यनिर्भासिनोप्यात्मनो नाकारणो भवति व्यापारोऽसौ