________________
८
यथाह सोमिलप्रश्ने, जिनः स्याद्वादसिद्धये । द्रव्यार्थादहमे कोऽस्मि, हग्ज्ञानार्थादुभावपि
अश्चयश्चाव्ययश्चास्मि, प्रदेशार्थविचारतः । अनेक भूतभावात्मा, पर्यायार्थपरिग्रहात् द्वयोरेकत्वबुद्ध्यापि यथा द्वित्वं न गच्छति । नयैकान्तधियाप्येव-मनेकान्तो न गच्छति
सामग्र्येण न मानं स्याद् द्वयोरेकत्वधीर्यथा । तथा वस्तुनि वस्त्वंश - बुद्धिर्ज्ञेया नयात्मिका
एकदेशेन चैकत्व - धीर्द्वयोः स्याद्यथा प्रमा । तथा वस्तुनि वस्त्वंश - बुद्धिर्ज्ञेया नयात्मिका
इत्थं च संशयत्वं यद्, नयानां भाषते परः । तदपास्तं विलम्बानां, प्रत्येकं न नयेषु यत्
सामय्येण द्वयालम्बे -ऽप्यविरोधे समुच्चयः । विरोधे दुर्नयत्राताः, स्वशस्त्रेण स्वयं हताः
कथं विप्रतिषिद्धानां न विरोधः समुच्चये १ | अपेक्षाभेदतो हन्त, केव विप्रतिषिद्धता १
भिन्नापेक्षा यथैकत्र, पितृपुत्रादिकल्पना | नित्यानित्याद्यनेकान्त - स्तथैव न विरोत्स्यते
॥ १ ॥
॥ २ ॥
॥ ३ ॥
118 11
11 4 11
11 & 11
119 11
116 11
118 11
॥ १० ॥
व्यापके सत्यनेकान्ते, स्वरूपपररूपयोः । आनेकान्त्यान्न कुत्रापि, निर्णीतिरिति चेन्मतिः अव्याप्यवृत्तिधर्माणां यथावच्छेदकाश्रया । नापि ततः परावृत्ति - स्तत् किं नात्र तथेक्ष्यते ? ॥ ११ ॥