SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ मिकारूपा तापशुद्धिरपि न तस्य । एवं " पशुना रुद्रं यजेत" इत्यादिना हिंसोपदेशकत्वेन सकलजन्तुजातहितोपदेशदायकत्वाभावः, अर्थकामरूपार्थाभिधायकत्वेन मुमुक्षुसत्साधुपरिग्रहायोग्यत्वम् , " मा हिंस्यात्सर्वाभूतानि" " पशुना रुद्रं यजेत" इत्यादिपूर्वापरविरुद्धार्थप्रतिपादकत्वेन सर्वज्ञक्लप्तत्वाभावोऽपि चानुमेयः । एवं बौद्धादिशास्त्राणामपि दृष्टेष्टार्थविरुद्धार्थप्रतिपादकत्वेन प्रामाण्याभावान्न श्रेयोमार्गत्वम् । नन्वेवं जिनशासनस्य शुद्धिरपि कथमवगता ?, पूर्वोक्तपरीक्षयैव, तथाहि, ध्यानाध्ययनादिविधीनां हिंसादिनिषेधानाञ्च मोक्षकगोचराणां प्रतिपादकत्वेन न तस्य कषाशुद्धिः। एवं तेषां विधिनिषेधानां योगक्षेमकारिण्याः समितिगुप्त्यादिरूपयतनायाः सर्वकार्येषु प्रतिपादकत्वान्न छेदाशुद्धिरपि तस्य । एवं सर्वनयाभिमतैकवस्तुप्रतिपादकत्वेन सर्वनयावलम्बिविचाररूपवह्निना न तस्य तात्पर्यश्यामिकारूपा तापाशुद्धिरपि । न च परस्परविरुद्धानां नयानामभिमतैकवस्तुप्रतिपादकत्वं शास्त्रस्य कथं प्रमाणविषय इति वाच्यं, अपेक्षाभेदेन तेषां विरुद्धार्थाभिधायकत्वाभावात् , परस्परसापेक्षत्वेनैव तेषां प्रमाणागत्वात् , केवलमाभासमात्रेण विरुद्धार्थप्रतिपादकत्वस्वीकार एकस्मिन्पुरुषे सर्वानुभाविकेऽन्यान्यापेक्षया पितृपुत्रत्वादिके कथं सङ्गतिः स्यादिति सूक्ष्मेक्षिकया निभालनीयम् , अनुभवस्यापलपितुमशक्यत्वात् । न च सर्वस्य वस्तुनोऽनेकान्तत्वे स्वपररूपविषयकनिश्चयाभावादिदोषाणामापत्तिः स्यादिति वाच्यं, तेषां दोषाणामनेकधा तत्तच्छालेऽभियुक्तैर्निराकृतत्वात् तथाहि
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy