________________
आनैगमान्त्यभेदं तत् परावृत्तावपि स्फुटम् । अभिप्रेताश्रयेणैव, निर्णयो व्यवहारकः
।। १२ ।।
अनेकान्तेऽप्यनेकान्ता - दनिष्ठैवमपाकृता । नयसूक्ष्मक्षिकाप्रान्ते, विश्रान्तेः सुलभत्वतः आत्माश्रयादयोऽप्यत्र, सावकाशा न कर्हिचित् । ते हि प्रमाणसिद्धार्थात्, प्रकृत्यैव पराङ्मुखाः
॥ १३ ॥
॥ १४ ॥
उत्पन्नं दधिभावेन, नष्टं दुग्धतया पयः । गोरसत्वात् स्थिरं जानन्, स्याद्वादद्विड् जनोऽपि कः ॥ १५ ॥ इच्छन् प्रधानं सत्वाद्यै- विरुद्वैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो, नानेकान्तं प्रतिक्षिपेत् ॥ १६ ॥ विज्ञानस्यैकमाकारं, नानाकारकरम्बितम् । इच्छंस्ताथागतः प्राज्ञो, नानेकान्तं प्रतिक्षिपेत् ॥ १७॥ चित्रमेकमनेकं च, रूपं प्रामाणिकं वदन् । योगो वैशेषिको वापि, नानेकान्तं प्रतिक्षिपेत् ॥ १८॥ प्रत्यक्षं मितिमात्रंशे, मेयांशे तद्विलक्षणम् । गुरुर्ज्ञानं वदनेकं, नानेकान्तं प्रतिक्षिपेत् ॥ १९ ॥ जातिव्यक्त्यात्मकं वस्तु, वदन्ननुभवोचितम् । भट्टो वाऽपि मुरारिर्वा, नानेकान्तं प्रतिक्षिपेत् ||२०|| अबद्धं परमार्थेन, बद्धं च व्यवहारतः । ब्रुवाणो ब्रह्मवेदान्ती, नानेकान्तं प्रतिक्षिपेत् ॥ २१ ॥ बुवाणा भिन्नभिन्नार्थान्, नयभेदव्यपेक्षया ।
प्रतिक्षिपेयुनों वेदाः स्याद्वादं सार्वतान्त्रिकम् ॥ २२ ॥
,