SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ( ६३ ) , " सर्व पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु ॥ कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते १ ॥ १ ॥ सर्व पश्यतु वा मावा, इष्टमर्थं तु पश्यतु । प्रमाणं दूरदर्शी चे देतान् गृधान् प्रपूजय ॥ १ ॥” इति तस्य सर्वज्ञानाभावेन सर्वथाधिकृतैकवस्तुविषयकज्ञानमपि न युक्तम्, एकस्यापि पदार्थस्यानुगत- व्यावृत्तधर्मद्वारेणं सर्वपदार्थ सम्बन्धिस्वभावत्वात्, तदवेदने तत्रतोऽधिकृतवस्त्ववेदनात्, केवलमभिमानमात्रमेव लोकानां तत्र - " ततो दृष्टोऽयमर्थः " इति । एवं तस्य बुद्धस्य तत्त्वतोऽधिकृतैकवस्तुविषयक ज्ञानाभावेन तत्कृतशासनस्य प्रामाण्याभावात् कथं तस्य श्रेयोमार्गत्वम् ॥ ननु कथं धर्मादिविषयक ज्ञानस्योत्पत्तिः ? इति चेद्, उच्यते, सर्वज्ञप्रणीतागममनुसृत्याभ्यासादेव सामर्थ्य योगेन तदुत्पत्तेः । न चैवं चक्रकावतारः, अनादित्वात् सर्वज्ञपरम्परायाः, अत एव " तत्पुव्विया अरहया " इत्यादावनवस्थादिदोषस्य परिहारः । अर्थज्ञानशब्दरूपत्वाच्चागमस्य मरुदेव्यादीनां सार्वश्यस्य वचनरूपागमाभ्यासापूर्वकत्वेऽपि न क्षतिः, आगमार्थप्रतिपत्तित एव तेषामपि तथात्वसिद्धेस्तच्चतस्तत्पूर्वकत्वात् । अभ्यासेनास्पष्टस्य स्पष्टत्वायोगदोषश्चाऽनुक्तोपालम्भमात्रम्, ततोऽस्पष्टज्ञानमुपमृद्य स्पष्टज्ञानान्तरोत्पत्तेरेवोपगमात् "नट्ठम्मि उ छाउमत्थिए नाणे" इति वचनात् ॥ अत एव प्रेरणाजनितं ज्ञानमस्मदादीनामप्यतीताऽनागत
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy