________________
( ६२ ) वहारः न तु शुक्तिबोधेन रजतध्वंसस्सम्भवति, रजतात्यन्ता. मावबोधात्मको बाधस्तु शुक्तिज्ञानात्मक एव भवतीति । कथं तर्हि सर्वदा सत इच्छा, तदर्थप्रयत्नविशेषो वा ? इति चेत् ? नास्माकं परेषामिव मुक्तिर्भिन्ना, किन्तु चिद्रूपैव, नित्यावाप्तव च, इच्छा-प्रयत्नविशेषौ तु कण्ठगतचामीकरन्यायेनाऽनवाप्तत्वभ्रमात् , तन्निमित्तं त्वज्ञानमेव । न चैवं मुक्तेः पुरुषार्थत्वहानिः, तद्धि न पुरुषकृतिसाध्यत्वम् , विषभक्षणादेरपि पुरुषार्थत्वापत्तेः, नाप्यभिलषितत्वे सति कृतिसाध्यत्वं, गौरवात् , लाघवेनाभिलषितत्वमात्रस्यैव तदौचित्यात् । चन्द्रोदये तु पुरुषार्थत्वमिष्टमेव, प्रवृत्तिविलम्बस्तु कृतिसाध्यताधीविलम्बात् । ततः सिद्धं नित्यावाप्तस्यैव कण्ठगतचामीकरवचैतन्यस्य पुरुषार्थत्वम् । इत्यस्माकं वेदान्त विवेकसर्वस्वमिति चेत् । उच्यते" मुक्तौ भ्रान्तिभ्रौन्तिरेव प्रपञ्चे,
भ्रान्तिः शास्त्रे भ्रान्तिरेव प्रवृत्तौ ॥ कुत्र भ्रान्तिर्नास्ति वेदान्तिनस्ते,
क्लप्ता मूर्तिन्तिभिर्यस्य सर्वा ॥१॥" कथं चास्य भ्रान्तस्य शास्त्रश्रवणाद् नित्यावाप्ते चैतन्ये अनवाप्तत्वभ्रमो न निवर्तते ? । कथं वा विदितवेदान्तः स्वयं निवृत्ताऽनवाप्तत्वभ्रमः परमुपदेशेन प्रवर्तयन्प्रतारको न स्यात् ।। एवं बुद्धशासनमपि न श्रेयोमार्गः, तदीयैरेव तस्य सर्वज्ञत्वानङ्गीकारात् , तद्वाक्यं त्विदम्