SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ( ६४ ) सूक्ष्मादिपदाथविषयमस्तीति सर्वज्ञत्वं स्यात् इति मीमांसकमनोरथतरुरुन्मूलितः, अभ्यासजस्य स्पष्टविज्ञानस्य सकलपदार्थविषयस्यास्मदादीनामभावात् , इतरस्य च संशययोग्यतया स्वतन्त्रप्रवृत्त्यनुपयोगित्वात् , निर्मूलपरम्पराप्रसक्तेः । कामादिविप्लुतविशदज्ञानवत इव भावनाबललब्धविशदज्ञानवतः सर्वज्ञस्य तद्वदुपप्लुतत्वप्रसङ्गापादनं च वृथैव, 'भावनाबलाज्ज्ञानं वैशद्यमनुभवति' इत्येतावन्मात्रेण दृष्टान्तस्योपात्तत्वात् , सकलदृष्टान्तधर्माणां साध्यधर्मिण्यासञ्जनस्याऽयुक्तत्वात् , अन्यथा सकलानुमानोच्छेदप्रसक्तरित्यन्यत्र विस्तरः ।। ननु सर्वज्ञस्य नित्यसमाधानसम्भवे कथं तस्य वचनरूप. शास्त्रकरणे प्रवृत्तिः, वचने वा विकल्पसम्भवात् समाधानविरोधान्न समाहितत्वं स्यात् , समाधिर्हि 'चित्तवृत्तिनिरोधः', विकल्पश्च चित्तवृत्तिरिति । अपि च, रागाद्यावरणाभावे परेण सार्वयं वाच्यम् , रजोनीहाराद्यावरणापाये वृक्षादिदर्शनस्येव, तथा च रागाद्यभावे कथं तस्य वचनादि, प्रवृत्तिसामान्ये इ. च्छाया हेतुत्वात् । न च रागादीनामावरणत्वमपि प्रसिद्धम् , कुड्यादीनामेव ह्यावरणत्वप्रसिद्धिरिति कथं तदपगमे सर्वसाक्षात्कारोदय इति चेद् , न, वचनसामान्य विकल्पस्य हेतुत्वामावाद्, मन्त्राविष्टकुमारिकावचने व्यभिचारात् । न च धर्मविशेषहेतुकं मन्त्राविष्टकुमारिकावचनं न विकल्पमपेक्षत इति वाच्यम् । केवलिवचनेऽपि तथात्वस्वीकारे बाधकाभावाद्, अर्थावबोधस्य तत एव सिद्धेः, यदागमः-"केवलना
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy