________________
(६१) परमर्षिवचनोद्गार:-"जे एगं जाणइ से सव्वं जाणा, जे सव्वं जाणइ से एगं जाणइ" इति । घटज्ञानादिनिवय॑मपि मिथ्याज्ञानरूपं सम्यग्ज्ञानप्रागभावरूपं वाऽज्ञानं त्वतिरिक्तमेव । परेषां तु घटादिज्ञानात् तदज्ञानानिवृत्तिप्रसङ्गः, अनुगताज्ञानस्य मुक्तावेव निवृत्तेः । न च घटज्ञानाद् घटविषयतामात्रस्य निवृत्ति ज्ञानस्य, यथा परेषां घटनाशे सत्ताया घटसम्बन्धनाश इति वाच्यम् , दृष्टान्तस्यैवाऽसम्प्रतिपत्तेः, न हि घटनाशे स्वरूपात्मकघटसम्बन्धनाशो न तु सत्तानाश इति जैनाः प्रतिपद्यन्ते; न वोत्पाद-व्यय-ध्रौव्यपरिगतरूपबहिष्कृतां सत्तामेव प्रमाणयन्तीति । न च घटविषयतानिवृत्तिरपि सुवचा, स्वभावभूताया घटसंमृक्तावरणजनकतारूपायास्तस्या निःस्वभाववतोऽनिवृत्तौ निवर्तयितुमशक्यत्वाद् इत्यन्यत्र विस्तरः अथ नाज्ञानस्य निवृत्तिर्नाम धंसः, रूपान्तरपरिणतोपादानस्यैव तद्रूपत्वात् ; घटध्वंसो हि चूर्णाकारपरिणता मृदेव । न च चैतन्यस्य रूपान्तरमस्ति, तस्मानास्त्येवाज्ञानध्वंसः, किन्त्वज्ञानस्य कल्पितत्वात् तदत्यन्ताभांव एव तन्निवृत्तिः। किं तर्हि तत्त्वज्ञानस्य साध्यम् ? इति चेत्, नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्वबाधव्यतिरेकेण, तदुक्तम्“ तत्त्वमस्यादिवाक्योत्थ-सम्यग्धीजन्ममात्रतः। अविद्या सह कार्येण,नासीदस्ति भविष्यति॥१॥"
इति, स चायमधिष्ठानात्मक एव, मिथ्याभूतस्य बाध एव ध्वंस इत्यभिधीयते । अत एव शुक्तिबोधे रजतध्वंसव्य