SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ( ७ ) मुक्तिरिति सशरीरत्वे बाधकप्रमाणसद्भावात्तस्याशरीरत्वलक्षणविशेषः सिध्यत्येव, सामान्यस्य विशेषविनिर्मुक्तत्वाभावात् । एवं सर्वज्ञासर्वज्ञत्वेऽपि विवादे सति तस्य सर्वज्ञत्वमेव सिध्यति, असर्वज्ञत्वे बाधकप्रमाणभावात् । तथाहि, तस्यासकलज्ञत्वे समस्त कार्यप्रयोक्तृत्वानुपपत्तिः, तदनुपपत्तेः तन्वादिकार्याभावप्रङ्गात् तत्समस्तकारणपरिज्ञानाभावात् समस्तकारणपरिज्ञानाभावेऽपि तत्कार्यप्रयोक्तृत्वे व्याघातप्रसङ्गात्, कुलालादेर्घटादिसकलकारणापरिज्ञाने घटादिकार्यव्याघातवत् । न चेश्वरकार्यस्य तनुभुवनादेर्व्याघातसिद्धिः तत्समीहितकार्यस्य विचित्रादृष्टादेरव्याघातदर्शनादिति न कार्यत्वानुमानस्येष्टविरुद्धत्वं साध्यविकलत्वं च दृष्टान्तस्य सम्भवति । ननु तनुभ्रुवनादेर्विचित्रकार्यत्वदर्शनान्न तदेकस्वभावेश्वरकृतं सम्भवति यथा घटपटकटमुकुटशकटादीनां विचिकार्याणां नैकस्वभावकारणकृतत्वमिति चेत्, न, अस्माकमिष्टस्यैव साधितत्वात् । न ह्यस्माभिरेकस्वभावमीश्वराख्यं तनुभुवनादेर्विचित्रकार्यस्य निमित्तकारणमिष्यते तस्य ज्ञानेच्छाप्रयत्नत्रितयस्वभावत्वाङ्गीकारात्, तनुभुवनाद्युपभोक्तृ प्राणिगणादृष्टविशेषवैचित्र्यस्य सहकारित्वाच्च विचित्रस्वभावकार्योंपपत्तेः, घटपटकटमुकुटशकटादिकार्यस्यापि दृष्टान्तस्य तदुपादानविज्ञानेच्छाप्रयत्नशक्तिविचित्रतदुपकरणतदुपभोक्तृविचिश्रादृष्टसचिवेनैकेन पुरुषेण समुत्पादनसम्भवात्साध्यवैकल्याननुषङ्गात् । तदेवं कार्यत्वं हेतुस्तनुभुवनादेर्बुद्धिमन्निमित्तकत्वं
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy