________________
(६) दृष्टमिति तन्वादीनामपि सशरीरासर्वज्ञबुद्धिमनिमित्तकत्वं स्यादितीष्टविरुद्धसाधनाविरुद्धसाधनं स्यात् । अशरीरिणा सर्वज्ञेन कृतस्य कस्यचिदपि कार्यस्याभावात्साध्यविकलमुदाहरणमिति कश्चित् , सोऽपि न सन्मानयोग्यो, यतः सर्वानुमानोच्छेदप्रसङ्गः । तथाहि पर्वतो वह्निमान् धूमात् महानसवदित्यत्रापि पर्वतादौ महानसपरिदृष्टस्यैव खादिरपालाशाद्यग्निमात्रस्य साधने विरुद्धसाधनाद्धिरुद्धं साधनं, तार्णाद्यग्निमत्त्वस्यैव साध्यत्वे तस्य महानसादावसिद्धत्वात्साध्यवैकल्यमुदाहरणस्य च स्यादिति । यदि पुनरग्निमत्त्वसामान्यं देशाधविशिष्टं पर्वतादौ साध्यत इति नानिष्टसाधनम् , नापि साध्यवैकल्यं दृष्टान्तस्य, महानसादावपि देशाद्यविशिष्टस्याग्निमत्त्वस्य भावात् इति मतं, तदा तन्वादिष्वपि बुद्धिमनिमित्तकत्वसामान्यमेव साध्यत इति नेष्टविरुद्धसाधनो हेतुः, नापि साध्यविकलत्वमुदाहरणस्य, घटादावपि तस्य सद्भावात् । सिद्धे च बुद्धिमनिमित्तकत्वसामान्ये किमयं सशरीरोऽशरीरो वेति विप्रतिपत्तौ तस्याशरीरत्वं सिद्ध्यति सशरीरत्वे बाधकप्रमाणसद्भावात् । बाधकप्रमाणं च यथा यदि तस्य सशरीरत्वं स्यात् तदा तस्य शरीरस्य नित्यत्वमनित्यत्वं वा भवेत् , तृतीयविकल्पाभावात् । न तावन्नित्यत्वं, सावयवत्वादस्मदादिशरीरवत् । अत एव न अनादित्वमपि । नापि अनित्यत्वं, तदुत्पत्तेः पूर्वमीश्वरस्याशरीरत्वसिद्धिप्रसङ्गात् । अत एव नापि सादित्वम् । शरीरान्तरेण सशरीरत्वेऽनवस्थातो न