________________
( ५ ) यानां सकर्तृकबुद्ध्यनुत्पादकत्वात्तन्वादीनां दृष्टकर्तृकघटादिविलक्षणत्वमिष्यते तदा कृत्रिमाणामपि मौक्तिकादीनामगृहीतसमयानां सकर्तृकबुद्ध्यनुत्पादकत्वात्तेषामपि अबुद्धिमन्निमित्तकत्वापत्तिर्दुर्निवारा। किञ्च दृष्टादृष्टकर्तृकत्वाभ्यां न बुद्धिमनिमित्तेतरत्वसिद्धिायभावाद् , अदृष्टकर्तृकाणामपि जीर्णप्रासादादीनां बुद्धिमनिमित्तत्वस्य सर्वलोकसिद्धत्वान्नानु. मानबाधितपक्षः । नापि आगमस्तद्बाधकः, तत्साधकस्यैवागमस्य प्रसिद्धेः " द्यावाभूमी जनयन्देव एक आस्ते विश्वस्य कर्ता भुवनस्य गोप्ता" इत्याद्यागमस्य पक्षानुग्राहकत्वमेव न तु बाधकत्वम् , तस्मान्न कालात्ययापदिष्टो हेतुरबाधितपक्षनिर्देशानन्तरप्रयुक्तत्वात् । तत एव न सत्प्रतिपक्षः, विप. रीतानुमानाभावादित्यनवा कार्यत्वसाधनं तन्वादीनांबुद्धिमनिमित्तकत्वं साधयत्येव । यत्तु कैश्चिद् बुद्धिमनिमित्तकत्वसामान्ये साध्ये तन्वादीनां सिद्धसाधनं, अनेकतदुपभोक्तृबुद्धिमन्निमित्तत्वसिद्धेः तेषां तददृष्टनिमित्तत्वाददृष्टस्य च चेतनारूपत्वात् चेतनायाश्च बुद्धिलक्षणत्वादित्युच्यते, तन्न विद्वद्भयो रोचते, तन्वादिभोक्तृणां प्राणिनामदृष्टस्य धर्माधर्मसंज्ञकस्य चेतनत्वासम्भवात्तस्य न बुद्धित्वम् । 'अर्थग्रहणस्वरूपं हि बुद्धिश्चेतना,' न खलु धर्माधर्मयोरर्थग्रहणत्वं सि. द्धमिति न तन्वादीनामनेकबुद्धिमनिमित्तकत्वं सिद्ध्यति येन बुद्धिमनिमित्तकत्वसामान्ये साध्ये सिद्धसाधनं स्यात् । ननु घटादीनां सशरीरेणासर्वज्ञेन च बुद्धिमता कुलालादिना करणं