________________
( ४ )
9
सन्ततिः सिद्ध्येत् । ननु को दोषः, युक्त्यभाव एंव दोषः । किश्च पूर्वपूर्वकल्पने उत्तरोत्तरस्य वैयर्थ्यापातात् परस्परमिथ्याव्याघातप्रसङ्गात्, अनेकेश्वरस्वीकारापत्तेश्चेति सुदूरमपि गत्वाऽनादिरेक एवेश्वरोऽनुमन्तव्यः । स पूर्वेषामपि गुरुः कालेनाविच्छेदादिति तस्य जगन्निमित्तत्वसिद्धेरनादित्वमन्तरेणानुपपत्तेरित्यनादित्वसिद्धिः । न चेदं कार्यत्वमसिद्धं तन्वादेर्वादिप्रतिवादिनोः कार्यत्वस्वीकारात् । नाप्यनैकान्तिकत्वं कार्यत्वहेतोः कस्यचित्कार्यस्याबुद्धिमन्निमित्तकस्यासम्भवाद्विपक्षाद् व्यावृत्तत्वात् । न चेश्वरशरीरेण व्यभिचारः, ईश्वरशरीरानभ्युपगमात् । नापीश्वरज्ञानेन व्यभिचारस्तस्य नित्यत्वस्वीकारेण कार्यत्वासिद्धेः । नापि तदिच्छया, तस्या अपि नित्यत्व स्वीकारात् । नापि तत्प्रयत्नेन तस्यापि नित्यत्वाभ्युपगमात्, अत एव न विरुद्धत्वमपि, विपक्षेऽत्यन्तासम्भवात् । न चायं हेतुः कालात्ययापदिष्टः, प्रत्यक्षादिप्रमाणेन 1 । पक्षस्याबाधात् । न च तनुभ्रुवनादौ प्रत्यक्षेण कर्त्रनुपलब्ध्या 1 प्रत्यक्षबाधितत्वमिति वाच्यं तस्यातीन्द्रियत्वाभ्युपगमेन प्रत्यक्षानुपलब्ध्या अभावनिश्चयाभावात् । नापि अनुमानेन, तद्विपरीतसाधनस्यानुपलम्भाद् ।
|
,
अथ तनुभ्रुवनादीनां घटादिभ्यो विलक्षणत्वान्न बुद्धिमनिमित्तकत्वमाकाशादिवदित्यनुमानं बाधकं स्यादिति चेत्, न, तेषु घटादिभ्यो विलक्षणत्वस्यासिद्धेः, रचनाविशेषवत्त्वेन तेषां दृष्टकर्तृकघटादितोऽविलक्षणत्वात् । यदि पुनरगृहीतसम