SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ (१४) व्याख्या - सतामिति, सतामपि सद्बुद्धिवेद्यतया साधारणानामपि षण्णां पदार्थानां मध्ये क्वचिदेव केचिदेव पदार्थेषु सत्ता सामान्ययोगः स्याद् भवेन्न सर्वेषु । तथा चैतन्यं ज्ञानमात्मनः क्षेत्रज्ञा दन्यदत्यन्तव्यतिरिक्तं । असमासकर गादत्यन्तमिति लभ्यते । औपाधिकं । उपाधेर गतमौपाधिकं । तथा मुक्तिर्मोक्षः न संविदानन्दमयी न ज्ञानसुखरूपा । संविद ज्ञानं आनन्दः सौख्यं ततो द्वन्द्वः संविदानन्दौ प्रकृतौ यस्यां सा संविदानन्दमयी । तादृशी न भवति । च श ब्दः पूर्वोक्ताभ्युपगमद्वयसमुच्चये । तदेतदभ्युपगमत्रयमित्थं समर्थयद्भिरत्वदीयैः त्वदाज्ञाबहिर्भूतः कणादमतानुगामिभिः सुसूत्र मासूत्रितं सम्यगागमः प्रपश्चि तः । अथवा सुसूत्रमिति क्रियाविशेषणं । शोभनं सूत्रं वस्तुव्यवस्था घटना विज्ञानं यत्रेवमासूत्रितं ततच्छास्त्रार्थोपनिबन्धः कृत इति हृदयम् ॥ ८ ॥ अथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयं संवेद्यमानमप्यपलप्य तादृशकुशास्त्रशस्त्रसम्पर्कविनष्टसदृदृष्ट यस्तस्य विभुत्वं मन्यन्ते अतस्तत्रोपलम्भमाह - यत्रैव यो दृष्टगुणः स तत्र, कुम्भादिवन्निष्प्रतिपक्षमेतत् ॥
SR No.022430
Book TitleAnyayog Vyavacched Dwatrinshika
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy