________________
७०६
षड्दर्शन समुशय भाग - २, श्लोक - ५८, जैनदर्शन
अथ जैनमतं संक्षेपयन्नाहवे नमतनो पसंडार ४२di छ ...
जैनदर्शनसंक्षेप इत्येष गदितोऽनघः ।।
पूर्वापरपराधातो यत्र क्वापि न विद्यते ।।५८ ।। શ્લોકાર્થ આ પ્રમાણે સર્વથાનિર્દોષ જૈનદર્શનનું સંક્ષેપથી કથન કર્યું છે. તે જૈનદર્શનની માન્યતાઓમાં ક્યાંય પણ પૂર્વાપરવિરોધ આવતો નથી.
व्याख्या-जैनदर्शनस्य संक्षेपो विस्तरस्यागाधत्वेन वक्तुमशक्यत्वादुपयोगसारः समास इत्यमुनोक्तप्रकारेणैव-प्रत्यक्षो गदितो-अभिहितोऽनघो-निर्दूषणः सर्ववक्तव्यस्य सर्वज्ञमूलत्वे दोषकालुष्यानवकाशात् । यत्र-जैनदर्शने क्वापि क्वचिदपि जीवाजीवादिरूपविचारणाविषयसूक्ष्ममतिचर्चायामपि पूर्वापरयोः-पूर्वपश्चादभिहितयोः पराघातःपरस्परव्याहतत्वं न विद्यते, अयं भावः-यथा परदर्शनसंबन्धिषु मूलशास्त्रेष्वपि किं पुनः पाश्चात्यविप्रलम्भकग्रथितग्रन्थ कथासु प्रथमपश्चादभिहितयोमिथोविरोधोऽस्ति, तथा
जैनदर्शने क्वापि केवलिप्रणीतद्वादशाङ्गेषु पारम्पर्यग्रन्थेषु च सुसंबद्धार्थत्वात्सूक्ष्मेक्षिकया निरीक्षितोऽपि स नास्ति । यत्तु परदर्शनेष्वपि क्वचन सहदयहृदयङ्गमानि वचनानि कानिचिदाकर्णयामः तान्यपि जिनोक्तसूक्तसुधासिन्धुसमुद्गातन्येव संगृह्य मुधा स्वात्मानं बहु मन्यते । यच्छ्रीसिद्धसेनपादाः-“सुनिश्चितं नः परतन्त्रयुक्तिषु, स्फुरन्ति याः काश्चन सूक्तिसंपदः । तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिनवाक्यविग्रुषः ।।१।।" [द्वात्रिंश.] इति । अत्र परे प्राहुः-अहो आर्हता ! अर्हदभिहिततत्त्वानुरागिभिर्युष्माभिरिदमसंबद्धमेवाविर्भावयांबभूवे यदुत युष्मदर्शनेष्वपि पूर्वापरयोर्विरोधोऽस्तीति । न ह्यस्मन्मते सूक्ष्मेक्षणैरीक्षमाणोऽपि विरोधलेशोऽपि वचन निरीक्ष्यते, अमृतकरकरनिकरेष्विव कालिमेति चेत् ? उच्यते । भोः ! स्वमतपक्षपातं परिहत्य माध्यस्थ्यमवलम्बमानैर्निरभिमानैर्धीप्रधानैः प्रति भाद्यवधानं विदधानैर्निशम्यते, तदा वयं भवतां सर्वं दर्शयामः ।
१कंथा । २ प्रतिभाव यद्यवधानं ।