SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुदय भाग - १, श्लोक - ३१, नैयायिक दर्शन २२३ साध्यो भवेत्, ततश्च न साध्यः साध्यस्य दृष्टान्तः स्यात् । न चेदेवं तथापि वैलक्षण्यात्सुतरां न दृष्टान्त इति । प्राप्त्यप्राप्तिविकल्पाभ्यां प्रत्यवस्थान प्राप्त्यप्राप्तिसमे जाती । यदेतत्कृतकत्वं साधनमुपन्यस्तं तत्किं प्राप्य साध्यं साधयत्यप्राप्य वा । प्राप्य चेत्, तर्हि द्वयोर्विद्यमानयोरेव प्राप्तिर्भवति न सदसतोरिति । द्वयोश्च सत्त्वात्किं कस्य साध्यं साधनं वा । अप्राप्य तु साधनत्वमयुक्तमतिप्रसङ्गादिति ९-१० । प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमा जातिः । यद्यनित्यत्वे कृतकत्वं साधनं, तदा कृतकत्वे किं साधनं, तत्साधनेऽपि किं साधनमिति ११ । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्, घटवदित्युक्ते जातिवाद्याह । यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्टः, एवं प्रतिदृष्टान्त आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं, कूपखननप्रयत्नानन्तरं तदुपलम्भादिति । न चेदमनैकान्तिकत्वोद्भावनं भंग्यन्तरेण प्रत्यवस्थानात् १२ । अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमा जातिः । अनुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः क वर्तते । तदेवं हेत्वाभावादसिद्धिरनित्यत्वस्येति १३ । साधर्म्यसमा वैधर्म्यसमा वा या जाति : पूर्वमुदाहारि सैव संशयेनोपसंह्रियमाणा संशयसमा जातिर्भवति । किं घटसाधर्म्यात्कृतकत्वादनित्यः शब्द उत तद्वैधादाकाशसाधादमूर्तत्वान्नित्य इति १४ । द्वितीयपक्षोत्थापनबुझ्या प्रयुज्यमाना सैव साधर्म्यसमा वैधर्म्यसमा च जातिः प्रकरणसमा भवति । तत्रैवानित्यः शब्दः कृतकत्वाद्धटवदिति प्रयोगे नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति । उद्भावनप्रकारभेदमात्रेण च जातिनानात्वं द्रष्टव्यम् १५ । ટીકાનો ભાવાનુવાદઃ (૭) વિકલ્પસમાં જાતિ : ધર્માન્તરના (બીજાધર્મના) વિકલ્પવડે ખંડન કરવું તે વિકલ્પસમાં જાતિ કહેવાય છે. જેમકે કોઈક કૃતકએવા રૂની ગાદિ આદિમાં મૃદુતા છે, તો કોઈક કૃતક કુહાડાદિમાં કઠિનતા છે. એ પ્રમાણે કૃતકએવા કોઈકઘડાઓ અનિત્ય થશે અને કૃતકએવા શબ્દો નિત્ય થશે. અહીં જેમ મૃદુત્વ અને કઠિનત્વ ધર્માન્તરો દ્વારા કૃતકત્વધર્મમાં વ્યભિચાર બતાવવાનો પ્રયત્ન થયો છે. તેમ અનિત્યત્વ અને નિયત્વ ધર્માન્તરોવડે પણ કૃતત્વમાં વ્યભિચાર બતાવવાનો પ્રયત્ન કર્યો છે. આમ ધર્માન્તર દ્વારા શબ્દમાં અનિત્યત્વનું ખંડન કર્યું છે તે વિકલ્પ સમાજાતિ છે.
SR No.022413
Book Titleshaddarshan Samucchay Satik Sanuwad part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages436
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy