SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २७६ जैनतर्कभाषा । अस्पष्टं यत्परोक्षं भषति ननु भिदा पत्रधा तस्य तत्र ___ याऽसौ पूर्वानुभूतार्थविषयनियता साऽनुभूत्येकजन्या । मानं स्मृत्याख्यमिष्टं न च निजविषये साऽन्यतन्त्रानुभावात् न प्रामाण्ये तथा साऽनुभवनियतता जन्ममात्रे तु तस्थाः ॥१३॥ मानं स्यात्प्रत्यभिज्ञा स्मृतिसहकतया जायते साऽनुभूत्या तिर्यक्सामान्यमुख्यान बहुविधविषयान् भासयत्यत्र यस्मात् । सादृश्याव॑ताद्यान् घटयति परतो दूरतादींस्तथैव यस्मात्तस्मात्परा सा समनुगमपरा यत्र तत्रैकरूपा ॥१४॥ पूर्वस्मादुत्तरस्मिन्घटयति च यतश्चैकतां तद्विशिष्टा थे द्रव्ये मेयमस्यास्सुगतसुत ततो नापनेयान्वयेयम् । न स्पष्टैकस्वरूपा भवतु कथमियं न्यायमान्यस्वरूपा महायुक्तोपमानं त्विह विशति यतो नाधिकं तत्त्रमाणम् ॥१५॥ साकं साध्येन हेतोः समसमयदेशादेशधर्मिस्वभावे व्याप्ति गृह्णाति बोधोऽव्यभिचरितमयी भाविकां तर्क एषः । वाच्यैस्साकं गिरा वाऽवगमननिपुणो वाच्यतादिरशेषा वच्छेदेनैव सोऽयं नियममतितयोहापराख्यः प्रमाणम् ॥ १६ ॥ साध्ये सत्येव हेतुस्सकल इह भवेनो विना तं च कोऽपि एवं स्यात्कुम्भशब्दः सकल इह भवेद्वाचकः कुम्भमात्रे । इत्याद्याकारकस्सः प्रभवति च दृशेः प्रत्यभिज्ञास्मृतिभ्यां साध्यादिस्तेन साध्यानुमितिरधिगतिश्चाभिधेयस्य शन्दात् ॥ १७॥ प्रामाण्यं तस्य बौद्धैरपहृतमुचितं तन्न प्रत्यक्षपश्चा द्भावेऽपि स्यात्ममाणं भवति ननु यतोऽत्रापि वस्तुप्रबन्धः । प्रामाण्यं मान्यमेतद्वयवहतिबलतो नाविनामावबोधः । प्रत्यक्षात्पश्चकाद्यत् सुगतसुतमता प्रक्रिया यत्र मिथ्या ॥ १८ ॥
SR No.022410
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJashwantlal Girdharlal Shah
Publication Year1951
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy