SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमञ्जरी । ११६ इति मुख्यतस्तु बुद्धेरेव विषयपरिच्छेदास्तथा च वाचस्पतिः सर्वो व्यवहर्त्ता आलोच्य नन्वहमत्राधिकृत इत्यभिमत्य कर्तव्यमेतन्मयेति श्रध्यवस्यति ततश्व प्रवर्त्तत इति लोकतः सिद्धं तत्र कर्त्तव्यमिति योऽयं निश्चयश्चितिसन्निधानापन्नचैतन्याया बुद्दे : सोऽध्यवसायो बुद्ध र साधारणी व्यापार इति चिच्छक्तिसन्निधानाचाचेतनापि बुद्धिश्च तनावतीवाभासते वादमहामंत्रोऽप्याह " बुद्दिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं हितौयदर्पणकल्पे पुंसि अध्यारोहति तदेवभोक्तृत्वमस्य नत्त्रात्मनो विकारापत्ति " रिति तथा चासुरि: 66 विविक्ते दृक्परिणत बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ बिन्ध्यवासी त्वेवं भोगमाचष्टे । पुरुषो ऽविकृतात्मैव स्वनिर्भासमचेतनम् ॥ मनः करोति सांनिध्यादुपाधिः स्फटिकं यथा । न च वक्तव्यं पुरुषश्चेदगुण परिणामी कथमस्य मोक्षो मुचेर्बन्धनविश्लेषार्थत्वात्सवासन क्लेशकर्माशयानां च बन्धनसमाम्नातानां पुरुषेऽपरिणामिन्यसं भवात् अत एव नास्य प्रेत्यभावापरनामा संसारोऽस्ति निष्क्रियत्वादिति यतः प्रकृतिरेव नानापुरुषाश्रया सतौ बध्यते संसरति मुच्यते च न पुरुष इति बन्धमोक्षसंसाराः पुरुषे उपचर्यन्ते तथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचर्यते तत्फलस्य कोश
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy