SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ( २ ) वीक्षाऽऽनन्दनवेदनव्यसनतो व्योमाङ्गणे भ्राम्यत-स्ते जीयासुर पीशवृद्धिविजया भट्टारकाभ्यर्चिताः ॥ ५॥ युग्मम् । तत्पादाम्बुरुहालयोऽमतिमया तत्सेवया साधिताऽ पूर्वज्ञानमहोदयाः शिवपुरप्रस्थानसार्थेश्वराः । नम्रानल्पनरेन्द्रमौलिमुकुटमोद्दामदामावली चञ्चच्चन्द्रमरीचिसोदररजः सम्मार्जिताऽङ्घ्रिद्वयाः ॥६॥ गत्वा गुर्जरदेशतः पदगतेयें पूरितायां गणैः श्रीकाश्यां प्रतिरोधिदर्शनजुषां विद्यालयाविष्कृतेः । अर्हच्छासनमुच्चगौरवपदं श्री काशिराजः पुनः साहाय्यात् प्रतिबोधितस्य महतीं शालां पशूनां व्यधुः ॥७॥ श्री - श्री - कीर्त्तिमनोरमा रमयता तेनैव भूमीमता श्रीमद्भारतभूमिभानुविदुषां संसत् समुद्भासिता । येभ्यः शास्त्रविशारदेतिसहितं प्रादाद गरीयः पदं जैनाचार्य इति, प्रलोक्य भुवनानन्यप्रभावश्रियम् ॥ ८ ॥ जातो यन्मुखभाभरैरभिभवाद् म्लानोऽन्तरिन्दुः शुचा .. यददेहद्युतितो ज्वलन्नतितरां भस्मीबभूव स्मरः । यद्भाग्यार्जनचिन्तया सुरगणोऽस्वप्नोऽविनिद्रोऽभवत् ज्ञानाद्वैतमतं पुनः प्रकटितं व्याप्तेर्भुवो यद्धिया ॥ ९॥ श्रीइन्द्रा मुनिपुङ्गवाः स्वसमयान्धेर्मध्यमध्यासिता-स्तृण्यामायपरागमेषु सुनयज्वालावलीनानलाः ।..
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy