SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ प्रथमः उक्तदिशा शरीरव्यतिरिक्ततया सिद्धोऽप्यात्मा क्लिष्टमनोरूप एवेति बौद्धमता वलम्बिवार्तानन्तरं प्रसङ्गादाह १८२ अत्रापि वर्णयन्त्येके, सौगताः कृतबुद्धयः । ww www क्लिष्टं मनोऽस्ति यन्नित्यं तद् यथोक्तात्मलक्षणम् ॥ ८८ ॥ अत्रापीति — आत्मविचारेऽपीति, आत्मसिद्धावपीति वाऽर्थः । कृतबुद्धयः चार्वाकापेक्षया परिष्कृतमतयः । एके सौगताः, सौगतानां मध्ये केचित् सौगताः, बौद्धविशेषा इति यावत् । वर्णयन्ति प्रतिपादयन्ति । किमित्यपेक्षायामाह - क्लिष्टमिति - क्लिष्टं राग-द्वेषादिक्केशकलुषितम्, न तु बाह्याकारम्, बाह्याकारस्व प्रवृत्तिविज्ञानस्य तत्सन्ततेर्वाss ssत्मरूपत्वाभावात् । यन्नित्यं मनोऽस्ति तद् मनः, यथोक्तात्मलक्षणम्, अहंप्रत्ययालम्बनात्मव्यपदेशभाक्, तथा चाहमित्यालय विज्ञानस्वरूप आत्मेत्यर्थः ॥ ८८ ॥ mmm एतन्मतं नित्यत्वं किं तद्भावेनाव्ययत्वं क्षणविशरारुपरिणामप्रवाहपतितत्वं वेति विकल्प्य दूषयन्नपर आह यदि नित्यं तदात्मैव, संज्ञाभेदोऽत्र केवलम् । अथानित्यं ततश्चेदं न यथोक्तात्मलक्षणम् ॥ ८९ ॥ ――― यदीति -- यदि त्वदभ्युपगतं क्लिष्टं मनः, नित्यं तद्भावेनाव्ययम् । तदा आत्मैव तत्त्वतः । अत्र क्लिष्टं मन आत्मेति वादे । केवलं संज्ञाभेदः मन इति आत्मेति नाममात्रभेदः, न त्वर्थभेदः, द्रव्यस्वरूपतया नित्यस्यैवात्मत्वं तवापि सम्मतमिति पर्यवसितं विवादेनेति भावः । अथानित्यं द्रव्यरूपतया - ऽप्यनित्यं नश्वरं तदिष्यते, तदेत्यस्यानुषङ्गः, द्रव्यरूपतयाऽपि मनसोऽनित्यस्यैवाभ्युपगमे त्विति तदर्थः । ततश्च अनित्यत्वाच्च, इदं मनः । न यथोक्तात्मलक्षणं युक्तत्यागमाभ्यामात्मनो यलक्षणं निष्टङ्कितं तद्वदनित्यं मनो न भवतीत्यर्थः ॥ ८९ ॥ किं लक्षणमात्मनो निष्टङ्कितम् ? यन्मनसि नास्तीत्यपेक्षायामाह - यः कर्ता कर्मभेदानां भोक्ता कर्मफलस्य च संसत परिनिर्वाता, स ह्यात्मा नान्यलक्षणः ॥ ९० ॥ य इति । कर्मभेदानां ज्ञानावरणाद्यष्टविधकर्मणाम्, कर्ता स्वस्वरूपा
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy