________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१८३ च्छादकतया निर्माता, यो व्यक्तिविशेषः, च पुनः, कर्मफलस्य सुखदुःखादेः, भोक्ता तस्यात्मगततया साक्षात्कर्ता, तथा संसर्ता स्वकृतकर्मफलोपभोगार्थ स्वकृतकर्मानुरूपनरकादिगतिगामी, संसरणशील इति यावत् , तथा परिनिर्वाता स्वेनैव बद्धस्य कर्मणः स्वप्रदेशतः पृथक्करणलक्षणक्षयकारी, हि निश्चितम्, स आत्मा अनन्तरोपवर्णितलक्षणवानात्मा, नान्यलक्षणः परोक्तकूटस्थत्वाद्येकान्तनित्यत्वादिलक्षणको न भवति, तथा च कर्तृत्वादिकं नित्यस्यैव घटते, नानित्यस्य मनसः, कार्यसमये नश्यतो हेतोः कार्याजनकत्वात् , कार्यकालावर्तिनोऽपि कारणत्वाभ्युपगमे चिरकाल विनष्टादपि कारणात् कालान्तरे कार्योत्पत्त्यापत्तेः, तथा च त्वदुक्तस्यानित्यस्य मनस आत्मरूपत्वं न संभवति, किन्तु तद्व्यतिरिक्त एव विज्ञानघनो नित्य आत्मेति सिद्धम् ॥ ९० ॥ नित्यत्वेऽप्यात्मनो नरादिरूपं वैचित्र्यं यथा संभवति तथोपपाद्य दर्शयति
आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् ।
नरादिरूपं तचित्रमदृष्टं कर्मसंज्ञितम् ॥ ९१ ॥ आत्मत्वेनेति । आत्मत्वेन आत्मत्वसामान्येन, अविशिष्टस्य एकरूपस्य एकजातीयस्येति यावत् , तस्य मात्मनः, वैचित्र्यं नरादिरूपं वैलक्षण्यम् , नरादीत्यादिपदानारकादिपरिग्रहः, यद्वशात् यस्य कारणस्य सामर्थ्यात् , तत् कारणम् ।चित्रं कार्यवैचित्र्यनिर्वाहकशक्त्यपरनामकस्वभाववैचित्र्यशालि, कर्मसंज्ञितं कर्मापरनामधेयम् , अदृष्टं सिद्ध्यतीति । न च धर्माधर्मलक्षणादृष्टस्वीकारमन्तरेणापि नरगत्याद्यर्जकक्रिययैव प्राग्भवोपार्जितया नरत्वादिवैचित्र्यं भविष्यतीति किमन्तर्गडुनाऽदृष्टेनेति वाच्यम् , अतिचिरविनष्टहेतोः फलाव्यवहितपूर्वक्षणस्थायिव्यापारव्याप्यत्वस्यावधारणात् , तदुक्तं कुसुमाञ्जलौ नैयायिकप्रकाण्डैरुदयनाचार्यैः
"चिरध्वस्तं फलायालं, न कर्मातिशयं विना। सम्भोगो निर्विशेषाणां, न भूतैः संस्कृतैरपि ॥ १-९॥” इति । अनेत्थं तद्न्थवचनसन्दर्भ:-"अस्तु दानाध्ययनादिरेव विचित्रो हेतुर्जगद्वैचित्र्यस्येति चेत् ? न-क्षणिकत्वात् , अपेक्षितस्य कालान्तरभावित्वात्।