________________
स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः
१८१ प्राकठ्यं प्रति समवायेन घटप्रत्यक्षं कारणमिति, एवमपि सम्बन्धविशेषेण घटप्राकम्येन घटप्रत्यक्षस्यानुमानं सम्भवति, अत एव तत्पुरुषीयघटप्राकव्यस्य तत्पुरुषेणैव ज्ञानं, यथा तत्पुरुषीयापेक्षाबुद्धिजनितं द्वित्वादिकं तत्पुरुषेणैव गृह्यते इति नैयायिकादीनां सिद्धान्तः, विषयतया तदीयप्राकळ्यप्रत्यक्षे तादात्म्येन तदीयप्राकट्यस्य हेतुत्वाच्चैत्रीयघटप्राकठ्यप्रत्यक्षं चैत्रस्यैव भवतीति चेत् ? नएवमपि प्राकव्यस्य प्रत्यक्षज्ञानेनैव जन्यतया तेन प्रत्यक्षज्ञानसिद्धावपि परोक्षेणानुमित्यादिना प्राकव्यस्यानुत्पादेनानुमित्यादेरसिद्ध्यापत्तेः, यथा च प्रत्यक्षज्ञानविषयीकृतोऽर्थः प्रकटोऽर्थ इत्येवमनुभूयत इत्येवमनुभवानुरोधेन प्राकव्यं पदार्थान्तरं स्वीक्रियते तथा अनुमित्यादिना विषयीकृतोऽर्थोऽप्रकटोऽर्थ इत्येवमनुभूयत इत्यनुभवानुरोधेन परोक्षज्ञानेऽप्राकट्यस्यापि पदार्थान्तरस्य स्वीकारापत्तेश्च; न च ज्ञानस्यातीन्द्रियत्वेऽपि प्रवृत्त्यादिनाऽनुमानं भविष्यति, लिङ्गाननुगमस्यादोषत्वादिति वाच्यम् , प्रवृत्त्यादेप्रत्यक्षत्वे तस्याप्यसिद्ध्या ततो ज्ञानानुमानासम्भवात् , यदि च 'अहं करोमि, अहमिच्छामि' इत्यनुभवारोधेन प्रवृत्त्यादेः प्रत्यक्षत्वं, तदा 'अहं साक्षात्करोमि, अहमनुमिनोमि' इत्याद्यनुरोधेन ज्ञानस्यापि प्रत्यक्षत्वं किमिति न स्वीक्रियते, बाधकामावस्योभयत्र तुल्यत्वात् , यथा च ज्ञानस्य कर्मत्वं तथा क्रियात्वमपि, बाद्यार्थस्य तु कर्मत्वमेव, ततो बाह्यार्थः क्रियात्वानाक्रान्तत्वात् कर्मतयाऽवभासते, क्रियात्वाननुविद्धकर्मत्वस्यैव कर्मत्वावभासप्रयोजकत्वमिति ज्ञानं न कर्मत्वेनावभासत इति ।। ___ यद्यपि राग-द्वेषरहितैः स्याद्वादिभिः प्रत्यक्षमात्रप्रमाणवादिनो भूतव्यतिरिक्तास्मापलापिनश्चार्वाकस्य कथायां प्रत्यक्षप्रमाणेनैव भूतव्यतिरिक्तात्मसाधनतो मुखमालिन्यकरणं न युक्तम् , तथापि वस्तुस्थित्यनुरोधेन यादृशं वस्तु तादृशं वस्तु साधनीयमेव लोकोपकृतये, चार्वाकस्याकामतोऽप्यात्मसिद्धिमनुभवतः काले भविष्यत्येव श्रेयःप्राप्तिरिति सोऽप्यनुगृहीत एव स्याद्वादिभिरुक्तयुक्तिभिः प्रत्यक्षप्रमाणत आत्मानं साधयनि-, मुखमालिन्यं च तस्य स्वकदाग्रहलक्षणापराधनिमित्तकमेवेत्यमुमर्थमावेदयितु मुपाध्यायैरुक्तम्
"आत्मसिद्धेः परं शोकाल्लोका लोकायताननम् । समालोकामहे म्लानं, तत्र नो कारणं वयम् ॥” इति ॥ ८७ ॥
॥ इति चार्वाकमतखण्डनम् ॥