________________
खबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१११ संयोगप्रतिबन्धकोऽवश्यमाश्रयणीयः, येनादृष्टविशेषेण मनमो निरिन्द्रियप्रदेशे पुरीतति नाड्यां गमने सति विजातीयमनःसंयोगानुत्पत्त्या सुषुयादिकाले ज्ञानानुत्पादः, तथा च विजातीयमनःसंयोगमनभ्युपगम्यैवादृष्टविशेषो ज्ञानप्रतिबन्धकः, तदभावाज्ज्ञनोत्पाद इति लाघवम् , अदृष्टविशेषो येन मानेन सिद्ध्यति तेन मानेन शरीरादिव्यतिरिक्तात्मनिष्ठ एव सिद्ध्यति, नास्तिकमते तु तस्यादृष्टस्य संयोगविशेषविशिष्टाणुवृत्तित्वमेव स्वीकरणीयम्, न च तन्याय्यम्-संयोगविशेषापनानेकाण्वात्मकाश्रयकल्पनापेक्षयैकातिरिक्तात्मरूपाश्रयकल्पने लाघ. वात् , किञ्च, य एव शरीरत्वघटकः संयोगः स एव यद्यात्मत्वघटकस्तदा यत्रैव शरीरत्वं तत्रैवात्मत्वमित्येवं तुल्यव्यक्तिवृत्तित्वेन तल्लक्षणतुल्यत्वरूप. जातिबाधकादात्मत्वं जातिर्न स्यात् , अखण्डस्वरूपाभावात् तयोर्जातिवं नेष्टमेव, यदि तदापि सखण्डोपाधिरूपयोस्तयोरेकसंयोगघटितस्वरूपत्वेन तुल्यवित्तिवेद्यत्वं प्रसज्येत, न चेदमपीष्टम् , अन्धकारे चक्षुरादिना शरीरत्वेन शरीर. ग्रहणाभावेऽपि 'अहं जानामि, सुखी, दुःखी, यते, इच्छामि' इत्येवमात्मप्रत्यक्षाभ्युपगमादहन्त्वस्यात्मत्वरूपत्वात् , यदि त्वात्मत्वघटकसंयोगः शरीरत्वघटकसंयोगाद् भिन्न एवोररीक्रियते तर्हि आत्मैव शरीराद् भिन्नः किमिति न स्वीक्रियत इति दिक् । परः शङ्कते-कथं न्विति तदभावः चैतन्ये प्राणधर्मानुविधायित्वाभावः, कथं कस्मात् , 'नु' इति वितर्के, अयमाशयः बुभुक्षालक्षणाशनीया-पिपासयोः प्राणधर्मयोरहन्त्वात्मकात्मत्वसामानाधिकरण्येनानुभवस्य 'अहमशनीयावान् अहं पिपासावान्' इत्येवं स्वरूपस्य सद्भावात् , "अन्योऽन्तरात्मा प्राणमयश्च" [ ] इति श्रुतेश्च प्राणस्य चैतन्यत्वं प्रामाणिकमपि नाभ्युपगम्यते यदि, तदाऽनुभवागमादिकदर्थनान्महान् वितर्कावसर इति । अत्रोत्तरमाह-चेदिति-एवं त्वं मन्यसे यदि तदेत्यर्थः ॥ ७१ ॥
प्राणधर्मस्पर्शविशेषादिसामानाधिकरण्येनाहन्त्वस्याप्रमीयमाणत्वान्न चैतन्यस्य प्राणधर्मत्वमित्याशयेनाह
तद्वैलक्षण्यसंवित्तेर्मातचैतन्यजे ह्ययम् ।
सुते तस्मिन्न दोषः स्यान्न न भावेऽस्य मातरि ॥ ७२ ॥ तद्वैलक्षण्यसंवित्तेरिति । प्राणधर्मस्पर्शविशेषादितोऽहन्त्वसामानधिकर. ण्येनाप्रतीयमानाद् वैलक्षण्येनाहन्त्वसामानाधिकरण्येनाशनीया-पिपासयोः संवि