________________
११० शास्त्रवार्तासमुच्चयः।
[प्रथमः विशेषदर्शनादन्यथासिद्धत्वशङ्कापर्यवसन्नः सन्देहः-चैतन्योत्पत्तिरात्मप्रयोज्या नवेति शङ्का निवर्तत इति भावः । ननु प्राणधर्मस्य जाड्यादेरननुविधायित्वेन चैतन्यस्य प्राणोपादानकत्वं मा भवतु, प्राणसत्त्वे जायमानत्वात् प्राणनिमित्तकत्वं तु स्यादेव, निमित्तनाशादपि नैमित्तिकस्य नाशोऽपेक्षाबुद्धिनाशाद् द्वित्वादिनाशाभ्युपगन्तृभिनैयायिकैरिष्ट एवेति मृतदेहे प्राणनाशादेव चैतन्यस्य नाशः, अतिरिक्ताऽऽत्माभ्युपगमेऽपि नित्यस्य तस्य नाशासम्भवान्न तदात्मकोपादाननाशाच्चैतन्यनाशः । न चाऽऽत्मनो नित्यत्वेऽपि तत्संयोगस्यानित्यत्वात् तन्नाशात् तच्छरीरनाश इति वाच्यम् , भात्मनो विभुत्वेन तत्संयोगस्य सार्वत्रिकत्वेन सर्वत्र चैतन्योत्पत्तिरापद्यत इति तस्य चैतन्यनिमित्तत्वासम्भवेन तमाशाच्चैतन्यनाशस्याभ्युपगन्तुमशक्यत्वात् । ननु प्राणस्य निमित्तकारणत्वे व्यवस्थिते चैतन्यस्योपादानकारणं किमपि बोध्यं भावकार्यस्य सोपादानत्वनियमात् , तञ्च परिशेषादतिरिक्तात्मैवेति चेत् ? न-प्रागुक्तरीत्या शरीरस्यैव चैतन्यं प्रत्युपादानकारणत्वादिति नव्यनास्तिकमते न कश्चिद् दोष इति चेत् ? न-सुषुह्याद्यवस्थायां प्राणसत्त्वेऽपि ज्ञानादिनाशस्य भावेन व्यतिरेकव्यभिचारेण प्राणनाशस्य ज्ञाननाशं प्रति कारणत्वाभावात् , अत एव प्रतियोगितासम्बन्धेन ज्ञानादिनाशं प्रति स्वप्रतियोगिजन्यत्वसम्बन्धेन विजातीयमनस्संयोगनाशस्य हेतुत्वमित्यपि प्रत्युक्तम् , सुषुप्तौ श्वास-प्रश्वासादिसन्तानानुरोधेन विजातीयमनःसंयोगसत्त्वस्यावश्यकतया विजातीयमनःसंयोगनाशाभावेऽपि ज्ञानादिनाशस्य तदानीं भावेन व्यतिरेकव्यभिचारेण विजातीयमनःसंयोगनाशस्यापि ज्ञानादिनाशं प्रत्यकारणत्वात् । ननु "शरीरे प्राणसञ्चारे कारणं परिकीर्तितम् ।" [ ] इति वचनात् श्वासप्रश्वाससन्तानलक्षणप्राणसञ्चार प्रति जीवनयोनियत्नस्य निमित्तत्वम् , जीवनयोनियत्ननाशश्च प्रारब्धादृष्टनाशादेव, जीवनयोनियत्नातिरिक्तज्ञानादिनाशं प्रति विजातीयमनःसंयोगनाशो हेतुरिति चेत् ? न-ज्ञानादिगुणमध्यादेकस्य जीवनयोनियननाशस्यादृष्टनाशजन्यत्वस्यावश्यक्लप्तत्वे ज्ञानादिगुणनाशस्याप्यदृष्टनाशजन्यत्वस्यैवाभ्युपगन्तुमुचितत्वात् , ज्ञानादिगुणनाशं प्रत्यदृष्टनाशस्य हेतुत्वे व्यवस्थिते सर्वेषामेव ज्ञानादिगुणानामदृष्टविशेषप्रभवत्वस्य स्वीकरणीयतया ज्ञानजनकादृष्टविशेषस्य सुषुप्ल्यादिकाले ज्ञानरूपफलोन्मुखतालक्षणपरिपाकाभावाज्ज्ञानप्रतिबन्धकादृष्टविशेषपरिपाकवशाद् वा सुषुप्यादिकाले ज्ञानानुत्पादात् विजातीयमनःसंयोगस्य ज्ञानकारणत्ववादिना नास्तिकेनापि अदृष्टविशेषस्तादृश