________________
२८२
पंचाचाराधिकारः ॥५॥ ग्रहणं तदवमोदर्य तप इति ॥ १५३ ॥
किमर्थमवमोदर्यवृत्तिग्नुष्ठीयत इति पृष्टे उत्तरमाह-. धम्मावासयजोगेणाणादीये उवग्गहं कुणदि। ण य इंदियप्पदोसयरी उमोदरितवोवुती १५४ धर्मावश्यकयोगेषु ज्ञानादिके उपग्रहं करोति । न च इंद्रियप्रद्वेषकरी अवमौदर्यतपोवृत्तिः॥१५४॥
धर्मे क्षमादिलक्षणे दशप्रकारे । आवश्यकक्रियासु समतादिषु षट्सु । योगेषु वृक्षमूलादिषु । ज्ञानादिके स्वाध्याये चारित्रे चोपग्रहमुपकारं करोतीत्यवमोदर्यतपोवृत्तिः । न चेन्द्रियप्रद्वेषकरी न चावमोदर्यकृत्येन्द्रियाणि प्रद्वेषं गच्छन्ति किन्तु वशे तिष्ठन्तीति । बहाशीर्धम नानुतिष्ठति । आवश्यकक्रियाश्च न सम्पूर्णाः पालयति । त्रिकालयोगं च न क्षेमेण समानयति । स्वाध्यायध्यानादिक च न कर्तुं शक्नोति । तस्येन्द्रियाणि च स्वेच्छाचारीणि भवन्तीति । मिताशिनः पुनर्धदियः स्वेच्छया वर्तन्त इति ॥ १५४ ॥ ___ रसपरित्यागस्वरूपं प्रतिपादयन्नाहखीरदहिसप्पितेल गुडलवणाणं च जंपरिचयणं तित्तकटुकसायंविलमधुररसाणंच जंचयणं॥ क्षीरदधिसर्पिस्तैलगुडलवणानां च यत् परित्यजनं ।